SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मस्तवाख्यो द्वितीयः कर्मग्रन्थः ।। तथा छाद्यते केवलज्ञानं केवलदर्शनं चात्मनोऽनेनेति च्छद्म-ज्ञानावरणदर्शनावरणमोहनीयान्तरायकर्मोदयः । सति तस्मिन् केवलस्यानुत्पादात् , तदपगमानन्तरं चोत्पादात् । छद्मनि तिष्ठतीति च्छद्मस्थः । स च सरागोऽपि भवति इत्यतस्तद्यवच्छेदार्थं वीतरागग्रहणम् । वीतःविगतो रागः-मायालोभकषायोदयरूपो यस्य स वीतरागः, स चासौ छद्मस्थश्च वीतरागच्छद्मस्थः । स च क्षीणकषायोऽपि भवति, तस्यापि यथोक्तरागापगमाद् अतस्तव्यवच्छेदार्थम् उपशान्तकषायग्रहणम् । “कष शिष" इत्यादिदण्डकधातुर्हिसार्थः, कषन्ति कष्यन्ते च परस्परमस्मिन् प्राणिन इति कषः-संसारः, कषमयन्ते-गच्छन्त्येभिर्जन्तव इति कषायाः-क्रोधादयः, उपशान्ताः-उपशमिता विद्यमाना एव सङ्क्रमणोद्वर्तनादिकरणोदयायोग्यत्वेन व्यवस्थापिताः कषाया येन स उपशान्तकषायः, स चासौ वीतरागच्छद्मस्थश्चेति उपशान्तकषायवीतरागच्छअस्थः, तस्य गुणस्थानमिति प्राग्वत् । तत्राविरतसम्यग्दृष्टेः प्रभृत्यनन्तानुबन्धिनः कषाया उपशान्ताः सम्भवन्ति । उपशमश्रेण्यारम्भे ह्यनन्तानुबन्धिकषायान् अविरतो देशविरतः प्रमत्तोऽप्रमत्तो वा सन् उपशमय्य दर्शनमोहत्रितयमुपशमयति । तदुपशमानन्तरं प्रमत्ताऽप्रमत्तगुणस्थानपरिवृत्तिशतानि कृत्वा ततोऽपूर्वकरणगुणस्थानोत्तरकालमनिवृत्तिबादरसम्परायगुणस्थाने चारित्रमोहनीयस्य प्रथमं नपुंसकवेदमुपशमयति, ततः स्त्रीवेदम् , ततो हास्यरत्यरतिशोकभयजुगुप्सारूपं युगपत् षटकम् , ततः पुरुषवेदम्, ततो युगपद् अप्रत्याख्यानावरणप्रत्याख्यानावरणौ क्रोधौ, ततः संज्वलनक्रोधम् , ततो युगपद् द्वितीयतृतीयौ मानौ, ततः संज्वलनमानम् , ततो युगपद् द्वितीयतृतीये माये, ततः संज्वलनमायाम् , ततो युगपद् द्वितीयतृतीयौ लोभौ, ततः सूक्ष्मसम्परायगुणस्थाने संज्वलनलोभमुपशमयति इत्युपशमश्रेणिः । स्थापना चेयम् । वि. स्तरतस्तूपशेमश्रेणिः स्वोपज्ञशतकटीकायां व्यासं.लो. अ.लो.प्र.लो. ख्याता ततः परिभावनीया । तदेवमन्येष्वपि सं.मा. गुणस्थानकेषु कापि कियतामपि कषायाणामुपशाअ.मा.प्र.मा. न्तत्वसम्भवाद् उपशान्तकषायव्यपदेशः सम्भवति, अतस्तब्यवच्छेदार्थं वीतरागग्रहणम् । उपशान्तअ.मा.प्र.मा. सं.को. कषायवीतराग इत्येतावताऽपीष्टसिद्धौ छद्मस्थग्रहणं अ.क्रो.प्र.क्रो. खरूपकथनार्थ, व्यवच्छेद्याभावात् । न ह्यच्छद्मस्थ पु.वे. उपशान्तकषायवीतरागः सम्भवति यस्य च्छद्महास्य रति अरति | शोक | भय | जुगु.] स्थग्रहणेन व्यवच्छेदः स्यादिति । असिंश्च गुणन. वे. स्थानेऽष्टाविंशतिरपि मोहनीयप्रकृतय उपशान्ता मि.मो. मि.मो.स.मो. ज्ञातव्याः । उपशान्तकषायश्च जघन्येनैकं समयं अ. क्रो. अ.मा. अ.मा. अ.लो. भवति, उत्कर्षेण त्वन्तर्मुहूर्त कालं यावत् , तत ऊवं नियमादसौ प्रतिपतति । प्रतिपातश्च द्वेधा-भवक्षयेणाऽद्धाक्षयेण च । तत्र भवक्षयो प्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायाम् । अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिन्नास्तत्र तत्र प्रतिपतता सता ते आरभ्यन्त इति क०१० सं.मा.] For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy