SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० श्रीपूर्वाचार्यविरचितः अथ प्रथमपरमेष्ठिनं वर्णयन्नाह नासियसयलकिलेसा, निहयकुलेसा पसत्थसुहलेसा। सिरिवद्धमाणतित्थस्स मंगलं दितु ते अरिहा ॥२॥ व्याख्या ते अर्हन्तः प्रथमपरमेष्ठिनः श्रीवर्धमानतीर्थस्य-श्रीमहावीरसंघस्य मंगलं कल्याणं ददतु । किंविशिष्टा अर्हन्तः ? 'नासियसयलकिलेसा' नाशिताः सकलाः क्लेशाः यैस्ते नाशितसकलक्लेशाः । पुनः किंविशिष्टा अर्हन्तः ? 'निहतकुलेसा' निहताः कुलेश्या अप्रशस्तकृष्णादिलेश्याः, पुनः किंविशिष्टा अर्हन्तः ! 'पसत्थसुहलेसा' प्रशस्ताः शुभाः शुक्ला लेश्या येषां ते प्रशस्तशुभलेश्याः । अथवा प्रशस्ताः सुखाः सुखकारिण्यो लेश्या येषां ते प्रशस्तसुखलेश्याः ॥२॥ अथ द्वितीयपरमेष्ठिनः सिद्धान् स्तुवन्नाह--- निद्दड़कम्मबीया, बीआ परमिद्विणो गुणसमिद्धा । सिद्धा तिजयपसिद्धा, हणंतु दुत्थाणि तिस्थस्स ॥३॥ व्याख्या-द्वितीयाः परमेष्ठिनः सिद्धाः-तीर्थस्य चतुर्विधसंघस्य दौस्थ्यानि घ्नन्तु-नाशयन्तु । किंविशिष्टाः सिद्धाः ? 'निहड्डकम्मबीआ' । निर्दग्धानि निर्मूलितानि भस्मसात्कृतानि कर्माण्येव बीजानि यस्ते निर्दग्धकर्मबीजाः । पुनः किंविशिष्टाः सिद्धाः ? 'गुणसमिद्धा' गुणैरेकत्रिंशद्भिः समृद्धा गुणसमृद्धाः । एकत्रिंशद्गुणानां गाथे इमे "पडिसेहण-संठाणे, वण्णे गंध-रस-फास-वेए अ । पण-पण-दु-पण-ट्ठ-तिहा, इगतीस अकाय-संग-रुहा ॥१॥" अथवा-"नव दरिसणंमि चत्तारि आउए पंच अमेअंते । सेसे दो भेया खीणाभिलावेण गुणतीसं ॥२॥" अनयोथियोः व्याख्यानं यथा-त्र्यस१चतुरस्ररवर्तुल३मंडलाध्यतानां ५ पंचानां संस्थानानां प्रतिषेधः। एवं पञ्चानां वर्णानां कृष्णादीनां प्रतिषेधः १० । तथा गन्धस्य सुरभ्यादिभेदद्वयस्य प्रतिषेधः १२। तथा रसानां कटुकादीनां पञ्चानां प्रतिषेधः १७। तथा स्पर्शानां शीतादीनां अष्टानां प्रतिषेधः २५ । तथा वेदानां त्रिविधानां पुरुषादिवेदानां प्रतिषेधः २८ । अकायो-देहाभावः २९ । असंगमः संगरहितः ३० । अरुहश्च जन्ममरणाभावः ३१ । इति प्रथमगाथाव्याख्यानम् ॥१॥ द्वितीयगाथाव्याख्यानं यथा-नव भेदा दर्शनावरणीयस्य ९। चत्वारो भेदा आयुषः १३॥ पञ्च भेदा ज्ञानावरणीयस्य १८ । पुनः पंच भेदा अन्तरायस्य २३ । शेषे अनुक्ते वेदनीयस्य भेदद्वयं साता-ऽसातरूपं २५ मोहनीयस्यापि भेदद्वयं चारित्रमोहनीय १ दर्शनमोहनीय २ चेति २७ । नामकर्मणोऽपि भेदद्वयं शुभनामकर्म १ अशुभनामकर्मेति २। २९। तथा गोत्रस्यापि भेदद्वयं उच्चैोत्रं नीचैर्गोत्रं चेति २।३१॥ अत्र गाथायां 'खीणाभिलावेणे'ति पाठात् क्षीणाभिलापेन ३१ भेदा वाच्याः। कोऽर्थः ? ज्ञानावरणं कर्म यस्य क्षीणं १, दर्शनावरणं कर्म यस्य क्षीणं, इत्येवं पदद्वयं सर्वत्र वाच्यम् । पुनः किंविशिष्टाः सिद्धाः 'तिजयपसिद्धा' त्रिजगत्प्रसिद्धाः ॥३॥ अथ तृतीयपरमेष्ठिन आचार्यान् स्तुवन्नाह आयारमायरंता, पंचपयारं सया पयासंता। आयरिया तह तित्थं, निहयकुतित्थं पयासंतु ॥४॥ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy