SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तस्मरणस्तषम् जं सुरसंघा सासुरसंघा, वेरविउत्ता भत्तिसुजुत्ता। आयरभूसियसंभमपिंडिअ-सुठुसुविम्हि असव्वषलोधा। उत्तमकंचणरयणपरूविअ-भासुरभूसणभासुरिअंगा। गायसमोणय-भत्तिवसागय-पंजलिपेसियसीसपणामा॥२३॥रयणमाला। वंदिऊण थोऊण तो जिणं, तिगुणमेव य पुणो पयाहिणं । पणमिऊण य जिणं सुरासुरा, पमुइया सभवणाई तो गया॥२४॥ खित्तयं ॥ तं महामुणिमहंपि पंजलि, राग-दोस-भय-मोहवज्जियं । देवदानवनरिंदवंदिरं, संतिमुत्तमं महातवं नमे।।२५।। खित्तयं ॥ ___ व्याख्याः-अहमपि तं शान्ति 'नमे' नमामि इति चतुर्थपद्यान्ते उक्तिलापनिका । किं० शान्तिम् ? । महामुनि महातपस्विनं । किं० अहं 'पंजलि' प्राञ्जली सन् । किं० शान्तिम् ? 'रागदोसभयमोहवज्जियं' रागो मायालोभरूपः । द्वेषः क्रोधमानरूपः । भयं भीतिः, मोहो अज्ञानं । ततो द्वन्द्वे कृते रागद्वेषभयमोहास्तैर्वर्जितम् । पुनः किं० शान्तिम् ? 'देवदाणवनरिंदवंदि। देवानां दानवानां नराणां च इन्द्राः तैर्वन्दितम् । पुनः किं० शाति । 'उत्तममहातवं' उत्तम प्रधानं महच्च गुरु तपो द्वादशप्रकारं यस्य स तं उ० । तं कं? यं प्रति सुरसंघाः आगताः वन्दनादिनिमित्तं । कैरित्याह-'वरविमाणदिव्वकणगरहतुरयपहकरसएहिं'। वराणां प्रधानानां विमानानां दिव्यानां कनकमयानां रथानां तुरंगानां च पहकराः समूहास्तेषां शतैः 'हुलि'इति शीघ्र । पुनः किं० सुरसंघाः । ससंभमोअरणक्खुभिअलुलियचलकुंडलंगयतिरीडसोहंतमउलिमालाः । ससंभ्रमं यत् अवतरणं अवपतनं तेन क्षुभिताः, तेषां क्षुभितानां सतां ललितानि चलानि पारिप्लवानि कुंडलानि च कर्णाभरणानि अंगदानि केयूराणि तिरीडाश्च तैः शोभमाना मौलीनां माला येषां ते व० ॥२२॥ वेष्टनकं नाम छन्दः । किंवि० 'सुरसंघाः । सासुरसंघाः सह असुराणां असुरकुमाराणां संघेन समूहेन वर्तते ये ते सासुरसंघाः। पुनः किंवि० सुरा 'वेरविउत्ता' वैरेण वियुक्ता रहिताः । पुनः किं० सु० 'भत्तिसुजुत्ता,' भक्त्या सु सुष्ठु युक्ताः भक्तिसुयुक्ताः। पुनः किं० । आयरभूसिअसंभमपिडियसुटुसुविम्हियसव्वबलोघा । आदरेण भूषिताः संभ्रमेण सत्वरं पिण्डिता मिलिताः सुष्टु अत्यर्थ सुविस्मिताः विस्मयं प्राप्ताः सर्वे समस्ता बलानां अनीकानां ओघाः समूहा येषां ते आ०। अत्र कर्मधारयगर्भे बहुव्रीहिसमासाः। पुनः किं० सु० 'उत्तमकंचणरयणपरूविअभासुरभूसणभासुरिअंगा'। उत्तम प्रधानं यत्काञ्चनं-खणं यानि च रत्नानि उत्तमकाञ्चनरत्नानि तैः प्रकृष्टरूपाणि कृतानि यानि भासुराणि भूषणानि तैः भासुरितानि अंगानि येषां तानि(ते) उ०। पुनः किं० सुरा० गायसमोणयभत्तिवसागयपंजलिपेसियसीसपणामा। गात्रेण समवनता भक्तिवशेन आगता भक्तिवशागताः । पुनः प्रांजलयः ततः कर्मधारयः । गात्रसमवनताश्च ते भक्तिवशागताश्चते प्रांजलयश्च गात्रसमवनतभक्तिवशागतप्रांजलयः तैः प्रेषितः शिरसा मस्तकेन प्रणामो यैस्ते गात्र० ॥२३॥ रत्नमालानाम छन्दः। ततस्ते सुरासुराः स्वभवनानि स्वमन्दिराणि गताः। कि० सुरासुराः प्रमुदिताः प्रमोदं प्राप्ताः । किं कृत्वा गताः ? 'वंदिऊण वंदित्वा प्रथमं प्रणम्य, ततः थोऊण स्तुत्वा वाग्भिः। ततो अनन्तरं त्रिसंख्यमेव त्रिगुणमेव च प्रकृष्टं प्रदक्षिणं कृत्वेति शेषः। ततः पुनः प्रणम्य जिनम् । खित्त(य) क्षिप्त नाम छन्दः ॥२२॥२३॥२४॥२५॥ अथ पद्यचतुष्टयेन श्रीअजितनाथं स्तुवन्नाहअंबरंतरविआरिणीआहि, ललियहंसबहुगामिणियाहिं। पीणसोणिधणसालीणियाहिं, सकलकमलदललोयणिआहि ॥ २६ ॥ दीवयं ॥ For Private And Personal Use Only
SR No.020658
Book TitleSaptasmaran Stava
Original Sutra AuthorN/A
AuthorSamaysundar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy