SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आचार्य श्री भ्रातृचंद्रसूरि ग्रन्थमाळा पुस्तक ५० मुं. २५ या अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया या 'आवस्सपत्ति' मावश्यकत तोरभेदोपचारासदानिह गृयते, ततधैको वा अनेको चा, कथंभूताः? अत उच्यते-आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठषणा ठषिजइति' स्थापनारूपं स्थाप्यते-क्रियते, आवृत्या बहुवचनान्तत्वे स्थापमा. रूपाः स्थाप्यन्ते-क्रियन्ते, तत् स्थापनावश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः । काष्ठकर्मादिप्यावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत स्थापमावश्यकमिति तात्पर्यम् । अधुना अवयवार्थ उच्यते-तत्र क्रियत इति कर्म काष्ठे कर्म काष्ठकर्म-काष्ठनिकुट्टितं रूपकमित्यर्थः, 'चित्रकर्म' चित्रलिखितं रूपकं 'पोत्थकम्मेव'ति अत्र पोत्थं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिम्पर्क धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं पुस्तकं तच्चेह संपुटकरूपं गृह्यते,तत्र कर्म तन्मध्ये धर्तिकालिखित रूपकमित्यर्थः, मथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेद निष्पन्नं रूपकं, 'लेप्यकर्म' लेप्य रूपकं, 'प्रन्थिमं' कौशलातिशयाद् अग्थिसमुदाय निष्पादितं रूपकं, 'वेष्टिम' पुष्पवेष्टमक्रमेण निष्पनमानन्दपुरादि प्रतीतरूपम् , अथवा एकं ध्यादीनि बा वखाणि वेष्टयन कश्चित् रूपकं उत्थापयति तद्वेष्टिमं, 'पूरिमं भरिमं' पित्तलादिमयप्रतिमावत् ‘संघातिमं' बहुवस्त्रादिखण्ड संघात. निष्पन्न कञ्चुकवत , 'अक्षः' चन्दनको 'वराटकः' कपर्दकः, अत्र वाचनान्तरे अन्यान्यपि दन्तका दिपदानि दृश्यन्ते ताम्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि, एतेषु काष्टकर्मादिषु आवश्यककियां कुर्वन्तः एकादिसाध्यादयः सद्भावस्थापनया असद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकं तत्र काष्ठकर्मादियाकारवती सद्भावस्थापना, साधायाकारस्य तत्र सद्भाषात, For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy