SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ श्रीसामाचारी समाश्रितं-श्रीसप्तपदी शास्त्रम् . प्लानि?, गौतम! पश्चदश नामधेयानि प्रज्ञप्तानि, तपथाप्रथमः पूर्वाङ्गो वितीयः सिद्धमनोरमस्तृतीयः मनोहर: चतुर्थो यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्धाभिषिक्तोऽष्टमः सौमनसो नषमो धनञ्जयः दशमोऽ र्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिषसानां भवन्ति नामधेयानि इति । सम्प्रत्येषां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह-एतेसि 'मित्यादि, एतेषां-अनन्तरोक्तानां पञ्चदशानां दिवसानां भदन्त ! कति तिथयः प्राप्ताः१, गौतम ! पञ्चदश तिथयः प्रज्ञप्ताः. तद्यथा-नन्दो भद्रो जयस्तुच्छोऽन्यत्र रिक्तः पूर्णः, अत्र तिथिशब्दस्य पुसि निर्दिष्टतया नन्दादिशब्दानामपि पुंसि निर्देशः, ज्योतिष्क रण्डकसूर्यप्रज्ञप्तिवृत्यादौ तु नन्दा भद्रा जया इत्यादिखीलिङ्गनिर्देशेन संस्कारो दृश्यते, स च पूर्णः पञ्चदश तिथ्या. त्मकस्य पक्षस्य पश्चमी इति रूढः, पतेन पञ्चमोतः परेषां षष्टयादितिथीनां नन्दादिक्रमेणैव पुनरावृत्तिदर्शिता, तथैव सूत्रे आह-पुनरपि नन्दः भद्रः जय; तुच्छः पूर्णः, स च पक्षस्य दशमी, अनेन द्वितीया आवृत्तिः पर्यवसिता, पुनरपि नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य पश्चदशी, उक्त. मर्थ निगमयति-एवमुक्तरीत्या आवृत्तित्रयरूपया एते अनन्तरोक्ता नन्दाचाः पंच त्रिगुणाः पञ्चदशसंख्याकास्तिथयः सर्वेषां-पश्चदशानामपि दिवसानां भवन्ति, एताश्च दिवस. तिथय उच्यन्ते, आह-दिवसतिथ्योः कः प्रतिषिशेषो येन तिथिप्रश्नसूत्रस्य पृथग्विधानं ?, उच्यते, सूर्यचारकृतो दिवस: स च प्रत्यक्षसिद्ध एव, चन्द्रचारकृता तिथिः, कथमिति चेत् ?, उच्यते पूर्वपूर्णिमापर्यवसानं प्रारभ्य द्वाषष्टि-भागीकृतस्य चन्द्रमण्डलस्य सदानावरणीयौ द्रौ भागौ वर्जयित्वा For Private And Personal Use Only
SR No.020656
Book TitleSaptapadi Shastra
Original Sutra AuthorN/A
AuthorSagarchandrasuri
PublisherMandal Sangh
Publication Year1940
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy