SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। तविपरीतः श्रेयान् व्यताव्यक्तनविज्ञानात् ॥२॥ ज्योतिः गतवन्तः लब्धवन्तः ज्योतिः स्वर्गमिति। अविदाम देवान् दिव्यान् विदितवन्तः । एवं च किबूनमस्मान् कणवद. राति: नूनं निश्चितं किम् अरातिः शत्रुरस्मान् कणवत् कर्तेति किमु धूर्तिरमृतमयस्य धूर्तिर्जरा हिंसा वा किं करिष्यति अमृतमय॑स्य। अन्यच्च वेदे श्रूयते प्रात्यन्तिकं फलं पशुबधेन। सर्वाल्लोकान् जयति मृत्यु तरति पापमानं तरति ब्रह्महत्यां तरति यो योऽश्वमेधेन यजत इति। एकान्तात्यन्तिके एव वेदोक्त अपार्थव जिज्ञासा इति न। उच्यते। दृष्टवदानुअविक इति दृष्ट न तुल्यो दृष्टवत् । कोऽसौ भानुश्रविक: कस्मात् स यस्मादविशुद्धिक्षयातिशययुक्तः। अविशुद्धियुक्तः पशुघातात् तथाचोक्लम्। षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनादूनानि पशुभिस्त्रिभिः ॥ यद्यपि श्रुतिस्मृतिविहितो धर्मस्तथापि मिश्रीभावादविशुद्धियुक्त इति । यथा बहनौन्द्र सहस्राणि देवानां च युगे युगे। कालेन समतौतानि कालो हि दुरतिक्रमः ॥ एवमिन्द्रादिनाशात् क्षययुक्तः। तथाऽतिशयो विशेषस्तेन युक्तः । विशेषगुणदर्शनादितरस्य दुःखं स्यादिति। एवमानुश. विकोऽपि हेतुष्टवत् ॥ कस्तहिं श्रेयानिति चेत्। उच्यते। तविपरीतः श्रेयान् ताभ्यां दृष्टानुश्रविकाभ्यां विपरीत: श्रेयान् प्रशस्यतर इति। अविशुद्धिक्षयातिशयायुक्तत्वात्। स कथमित्याह । व्यक्ताव्यक्तजविज्ञानात् तत्र व्यक्त महदादिबुधिरहङ्कारः पञ्चतन्मात्राणि एकादशेन्द्रियाणि पञ्चमहा. For Private and Personal Use Only
SR No.020636
Book TitleSankhyakarika
Original Sutra AuthorN/A
AuthorIshvar Krishna, Goudpada Swami
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1892
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy