________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मांख्यकारिका।
तेन निटत्तप्रसवामर्थवशात् सप्तरूपविनिटत्ताम् । प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवखितः मुस्खः॥६५ दृष्टामयेत्युपेक्षक एको दृष्टाहमित्युपरमत्यन्या। सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥६६
शरीरं तद्य तोऽहमन्यः शरीरमन्यन्नाहमित्यपरिशेषमहंकार. रहितमपरिशेषमविपर्ययाहिशुद्ध विपर्यायः संशयोऽविपर्य. यादसंशयादिशुद्ध केवलं तदेवनान्यदस्तौति मोक्षकारण मुत्पद्यतेऽभिव्यज्यते ज्ञानं पञ्चविंशतितत्वज्ञानं पुरुषस्य ति। ज्ञाने पुरुषः किं करोति ॥ ६४ ॥
तेन विशुद्धे न केवलज्ञानेन पुरुषः प्रकृतिं पश्यति प्रेक्षकवत् प्रेक्षकेण तुल्यमवस्थितः स्वस्थो यथा रङ्गप्रेक्षकोऽवस्थितो नत्त की पश्यति स्वस्थः स्वस्मिन् तिष्ठति स्वस्थः स्वस्थानस्थितः। कथंभूतां प्रकति निवृत्तप्रसवां निवृत्तबद्धाहकारकार्यानर्थ. वशात् सप्तरूपविनिवृत्तां निवर्तितोभयपुरुषप्रयोजन वशाद यैः सप्तभिः रूपैधर्मादिभिरात्मानं बध्नाति तेभ्यः सप्तभ्यो रूपेभ्यो विनिवृत्तां प्रकृतिं पश्यति। किञ्च ॥ ६५ ॥ __रङ्गस्य इति यथा रङ्गस्य इत्येवमुपेक्षक एकः केवलः शुद्धः पुरुषस्तेनाहं दृष्टेति कृत्वा उपरता निवृत्ता एका एकैव प्रकृतिः त्रैलोक्यस्यापि प्रधान कारणं भूता न द्वितीया प्रकृतिरस्ति मूर्ति बधे जातिभेदादेवं प्रकृतिपुरुषयोनिवृत्तावपि व्यापकत्वात् संयोगोऽस्ति न तु संयोगात् कुतः सर्गो भवति। सति संयोगेऽपि तयोः प्रकृतिपुरुषयोः सर्वगतत्वात् सत्यपि संयोगे प्रयोजनं नास्ति सर्गस्य सृष्टेश्चरितार्थत्वात् प्रकते. बिविधप्रयोजनं शब्दविषयोपलब्धिगंगापुकूषान्तरोपलब्धिश्च ।
For Private and Personal Use Only