SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यकारिका। शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥२८॥ खालक्षण्य वृत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्यकरणत्तिः प्राणाद्या वायवः पञ्च ॥२६॥ मात्रशब्दो विशेषार्थः। अविशेषव्यावृत्त्यर्थो यथा भिक्षामात्र लभ्यते नान्यो विशेष इति। तथा चक्षुः रूपमात्र न रसादिषु एवं शेषास्यपि तद्यथा चक्षुषो रूपं जिह्वाया रसो प्राणस्य गन्धः श्रोत्रस्य शब्दः त्वचः स्पर्शः। एवमेषां बुद्धौन्द्रियाणां वृत्तिः कथिता कर्मेन्द्रियाणां वृत्तिः कथ्यते वचनादान विहरणोत्सर्गानन्दाश्च पञ्चानां कर्मेन्द्रियाणामित्यर्थः । वाचो वचनं हस्तयोरादानं पादयोर्विहरणं पायोभतस्याहारस्य परिणतो मलोत्सर्गः उपस्थस्यानन्दः सुतोत्पत्तिविषया वृत्तिरिति सम्बन्धः। अधुना बुद्धाहकारमनसामुच्यते ॥ २८ ॥ खलक्षमखमावा खालक्षण्या। अध्यवसायो यो बुद्धिरिति लक्षणमुक्त सैव बुद्धिवृत्तिः। तथाऽभिमानोऽहङ्कार इत्यभिमानलक्षणोऽभिमानहत्तिश्च। सङ्कल्पकं मन इति लक्षणमुक्त तेन सङ्कल्प एव मनसो वृत्तिः । त्रयस्य बुड्यहङ्कारमनसां खालक्षण्या वृत्तिरसामान्या या प्रागभिहिता बुद्दौन्द्रियाणां च वृत्ति: साऽप्यसामान्यैवेति। इदानीं सामान्या हत्तिराख्यायते। सामान्यकरणवृत्ति: सामान्येन करणानां वृत्तिः प्राणाद्याः वायवः पञ्च प्राणापानसमानोदानव्याना इति पञ्च वायवः सर्वेन्द्रियाणां सामान्या वृत्तिय॑तः। प्राणो नाम वायुमुखनासिकान्तर्गोचरस्तस्य यत् स्यन्दनं कर्म तत् त्रयो दशविधस्यापि सामान्या वृत्तिः सति प्राणे यस्मात् करणा. For Private and Personal Use Only
SR No.020636
Book TitleSankhyakarika
Original Sutra AuthorN/A
AuthorIshvar Krishna, Goudpada Swami
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1892
Total Pages59
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy