________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साङ्ख्यदर्शनम्।
एकोऽद्वितीय इति वेदवचांसि पुंसि मर्वाभिमानविनिवर्त्तनतोऽस्य मुक्त्यै । वैधयलक्षणभिदा विरहं वदन्ति नाखण्डतां ख इव धर्म गताविरोधात् ॥ तस्य श्रुतस्य मननार्थमथोपदेष्ट सद्युतिजालमिह सायकदाविरासीत् । नारायणः कपिलमूर्तिरशेषदुःखहानाय जोनिवहस्य नमोऽस्तु तस्मै ॥ नानोपाधिषु यन्नानारूपं भात्य नलार्कवत् । तत् समं सवभूतघु चित्मामान्यमुपास्महे ॥ ईश्वरानौखरत्वादि चिदेकरमवस्तुनि । विमूढ़ा यत्र पश्यन्ति तदस्मि परमं महः ॥ कालाभक्षितं साङ्खयशास्त्र ज्ञानसुधाकरम् । कलावशिष्टं भूयोऽपि पूरयिष्ये वचोऽमृतैः ॥ चिदचिटुग्रन्थिभेटेन मोचयिष्ये चितोऽपि च । साङ्खाभाष्यमिषेणास्मात प्रीयतां मोक्षदो हरि: । तत् त्वमेव त्वमेवैतदेवं श्रुतिशतोदितम् ।
सर्वात्मनामवैधम्य शास्त्रस्यास्यैष गोचरः ॥ आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यामितच इत्यादिश्रुतिषु परमपुरुषार्थसाधनस्याधनस्यात्मसाक्षात्कारस्य हेतुतया श्रवणादित्रयं विहितम्। तत्र श्रवणादावपायाकाझायां समय॑ते ।
For Private And Personal Use Only