________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदश नम्। पौति । अयमेव च परिणामरूपः पारमार्थिको भोग: पुरुषे प्रतिषिध्यते बुद्धेर्भोग इवात्मनीत्यादिभिरिति मन्तव्यम् । अस्मिन् सूत्रे पुरुषस्यापि, फलव्याप्यता सिद्धा चिदवसानताया एवोभयसिद्धित्ववचनादिति ॥ १०४ ॥ ___ ननु कर्तुरेव लोके क्रियाफलभोगो दृष्टः। यथा सञ्चरत एव सञ्चारोत्थदुःखभोग इति। तत् कथं बुद्धिकतधर्मादिफलस्य सुखाद्यामिकाया अर्थोपरक्तबत्ति भॊग: पुरुषे घटेतेत्याशङ्कायामाह।
अकर्तुरपि फलोपभोगोऽन्नाद्यवत् ॥१०॥
बुद्धिकर्मफलस्यापि रत्ते रुपभोगस्तदकर्तुरपि पुरुषस्य युक्तः । अन्नाद्यवत् । यथान्यकतस्याबादेरुपभोगो राज्ञो भवति तहदित्यर्थः । अविवेकस्य स्वस्खामिभावस्य वा भोगनियामकलात् तु नातिप्रसङ्गः । सुखदुःखादेः कर्मफलत्वमभ्युपेत्य बुद्धिगतं कर्मफलं पुरुषो भुङक्त इत्युक्तम् ॥ १०५ ॥
इदानीं पुरुषगतभोगस्यैव कर्मफलत्वं स्वीकृत्य बुद्धिकर्मणा पुरुष एव फलमुत्पद्यत इति मुख्य सिद्धान्तमाह । अविवेकाहा तत्सिद्देः कत्तुंः फलावगमः ॥१०॥
अथवा कर्तरि फलमेव न भवति सुखं भुजौयेत्यादिकामनाभिर्भोगस्यैव फलत्वात्। अतो भोक्तनिष्ठ मेव फलं भवति शास्त्रविहितं फलमनुष्ठातरौति। शास्त्रेषु कर्तः फलावगमस्तु तत्सिद्देरकर्तनिष्ठाया भोगाख्यसिद्धः कर्तभावविवेकादित्यर्थः ॥ योऽहं करोमि स एवाहं भुन इति हि लौकिकानुभव इति। या च सुखं में भूयादित्यादिकामना सा पुत्रो मे भूयादितिवत् फलसाधनलेनैवोपपद्यते। भोगस्तु नान्यस्य साधनम्। अत स एव फलमिति मुख्यः सिद्धान्तः । भोगस्य
For Private And Personal Use Only