________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमोऽध्यायः।
श्रुतिस्मृतिभ्यां कथमोशो न सिध्यतीत्याकाहायां तर्कविरोधं लौकिकमेव बाधकमाह ।
मुक्तबड्डयोरन्यतराभावान्न तसिद्धिः ॥१३॥ ईखरोऽभिमतः किं के शादिमुत्तो वा तैर्बद्धो वा। अन्यतरस्याप्यसम्भवाने खरसिद्धिरित्यर्थः ॥ ८३ ॥
उभयथाप्यसत्करत्वम् ॥१४॥ मुक्तत्व सति स्रष्टत्वाद्यक्षमत्व तत्प्रयोजकाभिमानरागायभावात् । बद्धत्वेऽपि मूढत्वान्न सध्यादिक्षमत्वमित्यर्थः ॥२४॥
नन्वेवमीश्वरप्रतिपादकश्रुतीनां का गतिस्तवाह । मुतात्मनः प्रशंसा उपासा सिवस्य वा ॥६५॥
यथायोगं काचित् श्रुतिर्मुतात्मनः केवलात्मसामान्यस्य जेयताभिधानाय सन्निधिमात्रैश्वर्येण स्तुतिरूपा प्ररोचनार्था । काचिच्च सङ्कल्पपूर्वकस्रष्टत्वादिप्रतिपादिका श्रुति: सिद्धस्य ब्रह्मविष्णुहरादेरेवानित्य खरस्याभिमानादिमतोऽपि गौणनित्यत्वादिमत्त्वान्नित्यत्वाद्युपासापरेत्यर्थः ॥ ४५ ॥
ननु तथापि प्रशात्याद्यखिलाधिष्ठानत्वं श्रयमाणं नोपपद्यते लोके सङ्कल्पादिना परिणमनस्यैवाधिष्ठात्वव्यवहारादिति तनाह। तत्सन्निधानादधिष्ठाटत्वं मणिवत ॥
यदि सङ्कल्पेन स्रष्टुत्वमधिष्ठात्वमुच्यते तदायं दोषः स्यात्। अस्माभिस्तु पुरुषस्य सविधानादेवाधिष्ठाटत्व स्रष्ट्रत्वादिरूपमिष्यते मणिवत् । यधायस्कान्तमणे: साविध्यमात्रेण शत्यनिष्कर्षकलं न सङ्कल्पादिना तथैवादिपुरुषस्व संयोग.
For Private And Personal Use Only