SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । क्षणिकबाह्यविज्ञानोभयपक्षयोः समानलेमत्वात् तुल्यनिरसन हे तुकवादयमपि पक्षो विनश्यतीत्यनुषङ्गः । क्षणिकपक्षनिरासहेतुर्हि प्रत्यभिज्ञानुपपत्त्यादिः शून्यवादेऽपि समानः । तथा विज्ञानपक्षनिरासहेतुर्बाह्यप्रतीत्यादिरप्यत्र समान इत्यर्थः ॥ ४६ ॥ यदपि दुःखनिवृत्तिरूपतया तत्साधनतया वा शून्यतैवास्तु पुरुषार्थ इति मन्यते तदपि दुर्घटमित्याह । अपुरुषार्थत्व मुभयथा ॥ ४७॥ उभयथा स्वतः परतश्च शून्यतायाः पुरुषार्थत्व न सम्भवति । स्वनिष्ठत्वेनैव सुखादीनां पुरुषार्थत्वात्। स्थिरस्य च पुरुषस्यानभ्यु पगमादित्यर्थः ॥ ४७ ॥ तदेवं बन्धकारण विषये नास्तिकमतानि दूषिताति । इदानीं पूर्वनिरस्तावशिष्टान्यास्तिकसम्भाव्यान्यप्यन्यानि बन्धकारणानि निरस्यन्ते । न गतिविशेषात् ॥४८॥ प्रकरणादबन्धो लभ्यते। न गतिविशेषात् शरीरप्रवेशादिरूपादपि पुरुषस्य बन्ध इत्यर्थः ॥ ४८ ॥ अत्र हेतुमाह। निष्क्रियस्य तदसम्भवात् ॥ ४६॥ निक्रियस्य विभोः पुरुषस्य गत्यसम्भवादित्यर्थः ॥ ४८ ॥ ननु श्रुतिस्मृत्योरिहलोकपरलोकगमनागमनश्रवणात् पुरुषस्य परिच्छिवत्वमेवास्तु । तथा च श्रुतिरपि । अङ्गष्ट. मात्रः पुरुषोऽन्तरात्मेत्यादिरित्याशङ्कामपाकरोति । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy