SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मथमोऽध्यायः। २३ . इत्यनुशासनादिसिद्धाः क्षणिकविज्ञानात्मवादिनो बौद्धप्रभेदा एवमाहुः । नास्ति प्रकत्यादि वाह्यं वस्त्वन्यत् । येन तत्सयोगादौपाधिकस्तात्त्विको वा बन्धः स्यात्। किन्तु क्षणिकविज्ञानसन्तानमात्रमहितीयं तत् त्वमन्यत् सर्वं सांवत्तिक संवत्तिश्चाविद्यामिथ्याज्ञानाख्या तत एव बन्ध इति । तथा च तैरुक्तम्। अभिन्नोऽपि हि बुद्ध्यात्मा विपर्यासनिदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते । इति। तन्मतमादी निराक्रियते । नाविद्यातोऽप्यवस्तुना बन्धायोगात् ॥२०॥ अपिशब्दः पूर्वोक्त कालाद्यपेक्षया। अविद्यातोऽपि न साक्षाहन्धयोगः । अद्वैतवादिनां तेषामविद्याया अध्यवस्तुत्व न तया बन्धानोचित्यात्। न हि वापरवा बन्धनं दृष्टमित्यर्थः । बन्धोऽप्यवास्तव इति चेन्न। स्वयं सूत्रकारण निराकरिष्यमाणत्वात्। विज्ञानाईतश्रवणोत्तरं बन्धनिवृत्तये योगाभ्यासाभ्य पगमविरोधाच। बन्धमिथ्यात्वश्रवणेन, बन्धनिवृत्त्याख्यफलसिइत्वनिश्चयात् तदर्थ बह्वायाससाध्ययोगाङ्गानुष्ठाना. सम्भवादिति ॥ २०॥ वस्तुत्वे सिद्धान्तहानिः ॥ २१॥ यदि चाविद्याया वस्तुत्व स्वीक्रियते तदा स्वाभ्युपगतस्याविद्यानृतत्वस्य हानिरित्यर्थः ॥ २१ ॥ विजातीय तापत्तिश्च ॥ २२॥ किञ्चाविद्याया वस्तुत्व क्षणिकविज्ञानसन्तानाद्विजातीयं For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy