SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः। २२५ अन्धन्तम इवाज्ञानं दीपवच्चन्द्रियोद्भवम् । यथा सूर्य स्तथा जानं यहिप्रर्षे विवेकजम् । इति ॥ १४ ॥ विवेकेनैवाविवेको नाश्यत इति प्रतिनियमस्य ग्राहकमप्याह। अत्रापि प्रतिनियमोऽन्वयव्यतिरेकात ॥१५॥ ध्वान्तालोक्योरिव प्रकृतेऽपि प्रतिनियमः शुक्तिरजतादि. वन्वयव्यतिरेकाभ्यामेव ग्राह्य इत्यर्थः । अथवैवं व्याख्येयम् । ननु विवेकस्यापि किं प्रतिनियतं कारणं तबाह। अवापि विवेकेऽपि कारण नियमोऽन्वयव्यतिरेकाभ्यामेव सिद्धः । श्रव. णमनननिदिध्यामनरूपमेव कारणं न तु कर्मादीनि । कर्मादिकं तु बहिरङ्ग मेवेत्यर्थः ॥ १५ ॥ बन्धस्य स्वाभाविकत्वादिकं न सम्भवतीति प्रथमपादोक्त स्मारयति । प्रकारान्तरासम्भवादविवेक एव बन्धः ॥१६॥ बन्धोऽत्र दुःखयोगाख्यबन्धकारणम् । शेषं सुगमम् ॥१६॥ ननु मुक्तो रपि कार्यतया विनाशापत्त्या पुनर्बन्धः स्यादिति तनाह। न मुक्तस्य पुनर्बन्धयोगोऽप्यनाटत्तिथ तेः ॥१७॥ भावकार्यस्यैव विनाशितया मोक्षस्य नाशो नास्ति न स पुनरावर्त त इति श्रुतेरित्यर्थः। अपिशब्दः पूर्वमुत्रोतार्थसमुच्चये ॥ १७॥ अपुरुषार्थत्वमन्यथा ॥ १८॥ अन्यथा मुक्तस्यापि पुनर्बन्धे प्रलयवदेव मोक्षस्यापुरुषाथत्व परमपुरुषार्थत्वाभावो वा स्यादित्यथैः ॥ १८ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy