SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् । प्राप्तार्थप्रकाशलिङ्गाद्वृत्तिसिदिः ॥ १०६ ॥ सुगमम् ॥ १०६ ॥ देहमपरित्यज्यापि गमनोपपत्तये वृत्त : स्वरूपं दर्शयति । भागगुणाभ्यां तत्त्वान्तरं दृत्तिः सम्बन्धार्थ सर्पतौति ॥ १०७॥ सम्बन्धाथं सर्प तौति हेतोश्चक्षुरादेर्भागो विस्फलिङ्गवधिभक्तांशो रूपादिवट्गुणश्च न हात्तः। किन्तु तदेकदेशभूता भागगुणाभ्यां भिन्ना वृत्तिः। विभागे हि सति तद्दारा चक्षुषः सूयादिसम्बन्धो न घटते गुणत्वं च सर्पणाख्यक्रियानुपपत्तेरित्यर्थः । एतेन बहित्तिरपि प्रदीपशिखाबद्र्व्यरूप एव परिणामः स्वच्छतवार्थाकारतोद्ग्राही निर्मलवस्त्रवदिति सिद्धम् ॥ १०७ ॥ नन्व वं वृत्तीनां द्रव्यत्वे कथमिच्छादिरूपबुद्धिगुणेषु रत्तिव्यवहारस्त नाह। न द्रव्य नियमस्तद्योगात् ॥ १०८॥ वृत्ति व्य मेवेति नियमो नास्ति । कुतः । तद्योगात् । तन वृत्तौ योगार्थसत्त्वात् । वृत्तिवर्तन जीवन इति हि यौगिकोऽयं शब्दः । जीवनं च स्वस्थितिहेतुापारः । जीवबलप्राणधारणयोरित्यनुशासनात् । वैश्यत्तिः शूद्रवत्तिरित्यादिव्यवहाराच । तत्र यथा द्रव्यरूपया वृत्त्या बुद्धिर्जीवति तथेच्छादिभिरति तेऽपि वृत्तयः सर्वनिरोधेनैव चित्तमरणादित्यर्थः ॥ १०८॥ इन्द्रियाणां भौतिकत्वस्यापि श्रवणात् कदाचिल्लोकविशेषभेदेन श्रुतिव्यवस्था शयत तनाह । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy