________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
भूयोऽवयवादिसामान्यादतिरिक्त न सादृश्यमस्ति प्रत्यक्षत एव सामान्यरूपतयोपलम्भादित्यर्थः ॥ ४ ॥
ननु स्वाभाविको शक्तिरेव सादृश्यमस्तु न तु तत् सामान्वमित्याशङ्कामपाकरोति।
निजशक्त्यभिव्यक्तिर्वा वैशिध्यात् तदुपलब्धेः
वस्तुनः स्वाभाविकशक्तिविशेषोत्पादोऽपि न सादृश्यं शक्य - पलब्धि तः सादृश्योपलब्धेविलक्षणलात्। शक्ति ज्ञान हि नान्यधर्मिन्नानसापेक्षं सादृश्यज्ञानं पुनः प्रतियोगिज्ञानमपेक्षतेऽभावज्ञानवदिति ज्ञानयोर्वेलक्षण्यमित्यर्थः । किञ्च धर्मिणः शक्तिसामान्यं न सादृश्यं बाल्यावस्थायामपि युवमाश्यापत्तेः । किन्तु युवादिकालीन: शक्तिविशेषो युवादिसादृश्यमिति वक्तव्यं तथा च प्रतिव्यत्य नन्तशक्ति कल्पनापेक्षया सर्वव्यक्तिसाधारण कसामान्य कल्पनैव युक्तोति ॥ ८५ ॥ . ननु तथापि घटादिसंजकत्वमेव घटादिव्यतीनां सादृश्यमन्तु तत्राह।
न संज्ञासंतिसम्बन्धोऽपि ॥१६॥ यथोक्तः संज्ञासंजिनोः सम्बन्धोऽपि न सादृश्यं वैशिष्ट्यात् नदपलब्ध रेवेत्यर्थः । संज्ञासंनिभावमजानतोऽपि सादृश्य ज्ञानादिति ॥२६॥ अपिच।
न सम्बन्धनित्यतोभयानित्यत्वात् ॥१७॥ मंज्ञामंजिनोरनित्यत्वात् सत्सम्बन्धस्यापि न नित्यता। अतः कथं तेनातीतवस्तुसादृश्यं वर्तमानवस्तुनि स्यादि यर्थ: ।। ८७ ॥
For Private And Personal Use Only