SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः। . १८८ इत्यादिश्रुतिभिः पुम्पकत्योरपि सावयवत्वादनित्यत्वमिति तवाह। न भागलाभो भोगिनो निर्भागवश्रुतेः ॥७३॥ भोगिनः पुरुषस्य प्रधानस्य चावयवो न युज्यते निरवयवत्व श्रुतेः। निष्कलं निष्कृियं शान्तं निरवद्यं निरञ्जनम् । इत्यादिनेत्यर्थः। उक्त श्रुतिश्चाकाशजलयोरिव पितापुत्रचेतनयोरिव च विभागमात्रणांशांशिभावं बोधयतौति ॥७३॥ दुःखनिवृत्तिर्मोक्ष इत्य त तदवधारणाय तत्र मोक्षे परेषां मतानि निराकरोति । नानन्दाभिव्यक्तिमुक्तिर्निर्मित्वात् ॥ ७४ ॥ आत्मन्यानन्दरूपोऽभिव्यक्तिरूपश्च धर्मो नास्ति स्वरूपं च नित्यमेवेति न साधनसाध्यम्। अतो नानन्दाभिव्यक्तिर्मोक्ष इत्यर्थः ॥ ७४ ॥ न विशेषगुणोच्छित्तिस्तहत् ॥ ७५ ॥ अशेषविशेषगुणोच्छेदोऽपि न मुक्तिस्तहत् निधर्मवादेवेत्यर्थः। ननु तर्हि दुःखनिवृत्तिरेव कथं मोक्ष उक्तो दुःखाभावस्थापि धर्मत्वादिति चेन्न। अस्माभिर्भोग्यतासम्बन्धेनैव दुःखाभावस्य पुरुषार्थतावचनादिति ॥ ७५ ॥ न विशेषगतिर्निष्क्यिस्य ॥ ७६॥ ब्रह्मलोकगतिरपि न मोक्षः । आत्मनो निष्कियत्वेन गत्यभावात्। लिङ्गशरीराभ्युपगमे च न मोक्षो घटत इत्यर्थः For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy