SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमोऽध्यायः । साम्प्रतं तस्यामेव हेत्वन्तरमाह । नासतः ख्यानं नृश्टङ्गवत् ॥ ५२ ॥ वास्तां तावत् पञ्चावयवेन सुखादिसिद्धिः । ज्ञानमात्रादपि तत्सिद्धिः । अत्यन्तासत्त्वे सुखादीनां ज्ञानमेव नोपपद्यते नरशृङ्गादीनामभानादित्यर्थः । तथा च ब्रह्मसूत्रम् । नाभाव उपलब्ध रिति । शुक्तिरजतस्वप्नमनोरथादौ च मनःपरिणामरूप एवार्थः प्रतीयते नात्यन्तासन्निति वच्यति ॥ ५२ ॥ Rea नववं गुणादित्यन्तं सन्नेव भवतु तथा च नात्यन्तबाध इत्यन्तपदवैयर्थ्यामिति तत्राह । न सतो बाधदर्शनात् ॥ ५३ ॥ व्यत्यन्ततोऽपि गुणादेर्भानं न युक्तम् । विनाशादिकाले बाधदर्शनात् । चैतन्ये भासमानस्य जगतश्च तन्य एव बाधदर्शनाच्च । अथात आदेशो नेति नेति नेह नानास्ति किञ्चन यत्र देवा न देवा माता न मातेत्यादिश्रुतिभिन्ययैश्व त्यर्थः ॥ ५३ ॥ नन्वेवमपि सदसद्भ्यां भिन्नमेव जगद्भवतु तथाप्यत्यन्त - बाधप्रतिषेधोपपत्तिरिति तत्राह । नानिर्वचनीयस्य तदभावात् ॥ ५४ ॥ नासत्त्व न चानिर्वचनीयं तादृशस्यापि भानं न घटते सदभावात् । सदसद्भित्र व स्वप्रसिद्धेरित्यर्थः । दृष्टानुसारेणैव कल्पनाया श्रौचित्यादिति भावः ॥ ५४ ॥ नन्वेवं किमन्यथाख्यातिरेवेष्टा नेत्याह । नान्यथाख्यातिः स्ववचोव्याघातात् ॥ ५५ ॥ अन्यस्त्वन्यरूपेण भासत इत्यपि न युक्त खवचो व्याघा For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy