SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७३ सांख्यदर्शनम् । तमत्वेऽपि पङ्कदोषाद्दीनानुरूपता पङ्कजस्य न भवति तद्ददित्यर्थः । पङ्कस्थानौयं शिष्यचित्तम् ॥ ३१ ॥ ननु ब्रह्मलोकादिष्वं खयं चैव पुरुषार्थता सिधा किमर्थ - मेतावता प्रयासेन मोचाय ज्ञाननिष्पादनं तत्राह । न भूतियोगेऽपि कृतकृत्यतोपास्यसिद्दिवदुपास्यसिङ्घिवत् ॥ ३२ ॥ ऐश्वय्य योगोऽपि कृतकृत्यता कृतार्थता नास्ति चयातिशय दुःखैरनुगमात् । उपास्यसिद्दिवत् । यथोपास्यानां ब्रह्मादोनां सिद्धियोगेऽपि न कृतकृत्यता तेषामपि योगनिद्रादी यागाभ्यासश्रवणात् तथैव तदुपासनया प्राप्ततदैश्वय्यस्यापीत्यर्थः । उपास्यसिद्धिवदिति वौठा अध्याय समाप्तौ ॥ ३२ ॥ ध्यायत्रितयोक्तस्य विवेकस्यान्तरङ्गकम् । आख्यायिकाभिः सम्प्रोक्तमत्त्राध्याये समासतः ॥ इति विज्ञानभितुनिर्मिते कापिलसांख्यप्रवचनस्य भाष्य व्याख्यायिकाध्यायश्चतुर्थः ॥ पञ्चमोऽध्यायः । स्वशास्त्र सिद्धान्तः पर्याप्त इतः परं स्वशास्त्रे परेषां पूर्वपचानपाकत्तुं पञ्चमाध्याय आरभ्यते । तत्रादावादिसूत्रऽथशब्द ेन यन्मङ्गलं कृतं तद्दार्थमित्याक्षेपं समाधत्ते । मङ्गलाचरणं शिष्टाचारात् फलदर्शनात् श्रुतिश्चेति ॥ १ ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy