SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aaौयोऽध्यायः । बाधितानुवृत्त्या मध्यविवेकतोऽप्यपभोगः ॥७७॥ सकृत् सम्प्रज्ञातयोगेनात्मसाक्षात्कारोत्तरं मध्यविवेकावस्थो मध्यमविवेकेऽपि सति पुरुषे बाधितानामपि दुःखादीनां प्रारब्धवशात् प्रतिविम्ब रूपेण पुरुषेऽनुवृत्त्या भोगो भवतीत्यर्थः । विवेकनिष्पत्तिश्चापुनरुत्थानादसम्प्रज्ञातादेव भवतीत्यतस्तस्यां सत्यां न भोगोऽस्तीति प्रतिपादयितु मध्यविवेकत इत्युक्तम् । मन्दविवेकस्तु साक्षात्कारात् पूर्वं श्रवणमननध्यानयावरूप इति विभागः ॥ ७७ ॥ जीवन्मुक्तश्च ॥ ७८ ॥ जौवन्म क्तोऽपि मध्यविवेकावस्थ एव भवतीत्यर्थः ॥ ७८ ॥ जीवन्म के प्रमाणमाह । १६५ उपदेश्योपदेष्टृत्वात् तत्सिङ्घिः ॥ ७९ ॥ शास्त्रेष विवेकविषये गुरुशिष्य भावश्रवणाज्जीवन्मुक्तसिद्धिरित्यर्थः । जीवन्मुक्तस्यैवोपदेष्टृ त्वसम्भवादिति ॥ ७८ ॥ श्रुतिश्च ॥ ८० ॥ श्रुतिश्च जीवन्मतोऽस्ति । ७ दोचयैव नरो मुच्येत् तिष्ठन्म कोऽपि विग्रहे । कुलालचक्रमध्यस्थो विच्छिन्नोऽपि भ्रमेटः ॥ ब्रह्मैव सन् ब्रह्माप्येतीत्यादिरिति । नारदौयस्मृतिरपि । पूर्वाभ्यासबलात् कार्य्यं न लोको न च वैदिकः । पुण्यपापः सर्वात्मा जीवन्मुक्तः स उच्यते ॥ इति ॥ ८० ॥ ननु श्रवणमात्रेणाप्युपदेष्टृत्वं स्यात् तत्राह । ू For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy