SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६ सांख्यदर्शनम् । प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्शनमुपैति पुरुषस्य | इति ॥ ७० ॥ ननु पुरुषार्थं चेत प्रधानप्रवृत्तिस्तर्हि बन्धमोक्षाभ्यां पुरुषस्य परिणामापत्तिरिति तत्राह । नैकान्ततो बन्धमोक्षौ पुरुषस्याविवेकादृते ॥ ७१ ॥ दुःखयोगवियोगरूपों बन्धमोक्षौ पुरुषस्य नैकान्ततस्तस्वतः किन्तु चतुर्थ सूत्रवक्ष्यमाणप्रकारेणाविवेकादेवेत्यर्थः ॥७१॥ परमार्थतस्तु यथोक्तो बन्धमोक्षो प्रकृतेरेवेत्याह । प्रकृतेराञ्जस्यात् ससङ्गत्वात् पशुवत् ॥७२॥ प्रकृतेरेव ततो दुःखेन बन्धमोचौ मसङ्गत्वाददुःखमाधधर्मादिभिर्लिप्तत्वात् । यथा पशुरज्ज्वा लिप्ततया बन्धमोचभागौ तदित्यर्थः । एतदुक्तं कारिकया । तस्मात्र बध्यतेऽध्वा न मुच्यते नापि संसरति पुरुषः । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ इति । द्वयोरेकतरस्य वौदासीन्यमपवर्ग इति सूत्र े च पुरुषस्यापवर्ग उक्तः स प्रतिविम्ब रूपस्य मिथ्यादुःखस्य वियोग पवेति ॥ ७२ ॥ तत्र : साधनैर्बन्ध : कैर्वा मोक्ष इत्याकाङ्गायामाह । रूपैः सप्तभिरात्मानं बन्धाति प्रधानं कोशकारवहिमोचयत्ये करूपेण ॥ ७३ ॥ धर्मवैराग्यख धर्माज्ञानावैराग्यानेश्वर्यैः सप्तमौरूपधमैं दु:खहेतुभिः प्रकृतिरात्मानं दुःखेन बघ्नाति कोशकारवत् । For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy