SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयोऽध्यायः । १३३ समानकर्मयोगे बुद्धेः प्राधान्य लोकवल्लोकवत् ॥४७॥ यद्यपि पुरुषार्थत्व न समान एव सर्वेषां करणानां व्यापारस्तथापि बुद्देरेव प्राधान्य लोकवत्। लोके हि राजार्थकत्वा. विशेषेऽपि ग्रामाध्यक्षादिषु मध्ये मन्त्रिण एव प्राधान्य तहदित्यर्थः । अत एव बुद्धिरेव महानिति सर्वशास्त्रेषु गोयत इति। वीपाध्यायसमाप्तौ । ४७ ॥ लिङ्गदेहस्य घटकं यत् सप्तदशसंख्यकम् । प्रधानकायं तत् सूक्ष्ममत्राध्यायेऽनुवर्णितम् ॥ इति श्रीविज्ञानाचार्यनिर्मिते कापिलसांख्य प्रवचनस्य भाष्ये प्रधान कार्याध्यायो हितोयः । तृतीयोऽध्यायः। इतः परं प्रधानस्य स्थूलकायं महाभूतानि शरीरहयं च वक्तव्यं ततश्च विविधयोनि गत्यादयो ज्ञानसाधनानुष्ठान हेत्वपरवैराग्या) ततश्च परवैराग्याय ज्ञानसाधनान्य खनानि वक्तव्यानौति हतीयारम्भः । अविशेषाधिशेषारम्भः ॥ १॥ नास्ति विशेषः शान्तघोरमूढत्वादिरूपो यत्रेत्यविशेषो भूतसूक्ष्म पञ्चतन्मात्राख्य तस्माच्छान्तादिरूपविशेषवत्वेन विशेषाणां स्थूलानां महाभूतानामारम्भ इत्यर्थः। सुख्खायामकता हि शान्तादिरूपा स्थूलभूतेष्वेव तारतम्यादिभिरभिव्यज्यते न सूक्ष्मेषु तेषां शान्तैकरूपतयैव योगिभिव्यक्तेरिति ॥ १॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy