SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ सांख्यदर्शनम् । ऽभिमानोऽहङ्कारस्य सङ्कल्पविकल्पौ मनस इत्यायातम्। सङ्कल्पश्चिकौर्षा सङ्कल्पः कर्ममानसमित्यनुशासनात्। विकल्पश्च संशयो योगोतन्त्रमविशेषो वा न तु विशिष्टज्ञानं तस्य बुद्धिवृत्तित्वादिति ॥ ३० ॥ त्रयाणां साधारणी वृत्तिमप्याह । सामान्यकरण दृत्तिः प्राणाद्या वायवः पञ्च प्राणादिरूपाः पञ्च वायुवत् सञ्चारात् वायवो ये प्रसिहास्ते सामान्या साधारणी करणस्यान्तःकरणत्रयस्य हत्तिः परिणामभेदा इत्यर्थः । तदेतत् कारिकयोक्तम् । खालक्षण्यत्तिस्त्रयस्य सैषा भवत्यसामान्या। सामान्य करणत्तिः प्राणाद्या यायवः पञ्च ॥ इति । अत्र कश्चित्प्राणाद्या वायुविशेषा एव ते चान्तःकरणहत्त्या जीवनयोनिप्रयत्नरूपया व्याप्रियन्त इति कृत्वा प्राणाद्याः करणवृत्तिरित्यभेदनिर्देश इत्याह। तन्न । न वायुक्रिये पृथगुपदेशादिति वेदान्तस्तूत्रेण प्राणस्य वायुत्ववायुपरिणामत्वयोः स्फुटं प्रतिषेधादत्रापि तदेकवाक्यतोचि. त्यात्। मनोधर्मस्य कामादः प्राणक्षोभकतया सामानाधिकरण्य नैवौचित्याच्च । वायुप्राग योः पृथगुपदेशश्रुतयस्तु । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुज्योतिरापश्च पृथ्वी विश्वस्य धारिणी । इत्याद्या इति । अत एव लिङ्गशरीरमध्ये प्राणानामग. णनेऽपि न न्यूनता बुद्धेरेव क्रियाशक्त्या सूत्रात्मप्राणादिनामकत्वादिति। अन्तःकरणपरिणामेऽपि वायुतुल्य सञ्चारवि. शेषाहायुदेवताधिष्ठितत्वाच्च वायुव्यवहारोपपत्तिरिति ॥३॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy