________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११०
सांख्यदर्शनम्।
दिविधेरननुष्ठानलक्षणाप्रामाण्यप्रसङ्गात् । प्रपञ्चान्तर्गतस्य वेदान्तस्याप्यतश्रुत्या बाधे वेदान्तावगतेऽप्यते पुन: संशयापत्तेश्च । स्वाप्रवावयस्य जाग्रति बाधे तहाक्यार्थे पुनः संशयवत्। किञ्च मिथ्याबुद्धिर्नास्तिकतेत्यनुशासनाधर्मादिषु स्वापवन्मिथ्यादृष्टयो बौद्धप्रभेदा एव सांकृत्तिकशब्दन प्रपञ्चस्याविद्यकतायाश्च तैरभ्य पगमादिति दिक् ॥ १५७ ॥
ननु वामदेवादेरपि परममोक्षो न जात इत्यभ्यु पेयं तवाह। अनाहाबा यावदभावाविष्यदप्य वम् ॥१५८॥
अनादी कालेऽद्य यावश्चन्मोक्षो न जातः कस्यापि तर्हि भविष्थत्कालोऽप्येवं मोक्षशून्य एव स्यात् सम्यक्साधनानुष्ठानस्याविशेषादित्यर्थः ॥ १५८ ॥
तत्र प्रयोगमाह। दूदानीमिव सर्वत्र नात्यन्तोच्छेदः ॥ १५॥
सर्वत्र काले बन्धस्यात्यन्तोच्छेदः कस्यापि पुसो नास्ति वर्तमानकालवदित्यनुमाम सम्भवेदित्यर्थः ॥ १५८ ॥
पुरुषाणां यदेकरूपत्वमेकत्वप्रतिपादक श्रुत्यर्थावधारितं तत् किं मोक्षकाले किं सर्वदैवेत्याकाङ्क्षायामाह ।
व्याहत्तोभयरूपः ॥ १६० ॥ स च पुरुषो व्याहत्तोभयरूपो व्याहत्तो निवृत्तो रूपभेदो यस्मात् तथेत्यर्थः। श्रुतिस्मृतिन्यायेभ्यः सदैकरूपतासिद्धरिति शेषः। तदुक्ताम्।
बहुरूप इवाभाति मायया बहुरूपया। रममाणो गुणेष्वस्था ममाहमिति बध्यते ॥ इति ।
For Private And Personal Use Only