SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०२ Acharya Shri Kailassagarsuri Gyanmandir सांख्यदर्शनम् | एकस्या बुडेरयं घट इति वृत्तौ सत्यामन्यबुद्धिवृत्तिद्वारा नानुभवो घटमहं जानामीति ॥ १४८ ॥ तत्र सिद्धान्तमाह । जन्मादिव्यवस्थातः पुरुषबहुत्वम् ॥ १४८ ॥ पुण्यवान् स्वर्गे जायते पापी नरकेऽसो बध्यते ज्ञानी मुच्यत इत्यादेः श्रुतिस्मृतिव्यवस्थाया विभागस्यान्यथानुपपत्त्या पुषा बहव इत्यर्थः । जन्ममरणे चात्र नोत्पत्तिविनाशो पुरुषनिष्ठत्वाभावात् । किन्त्वपूर्वदेहेन्द्रियादिसङ्घातविशेषेण संयोगश्च वियोगश्च भोगतदभावनियामकाविति । जन्मादिव्यवस्थायां च श्रुतिः । जामेकां लोहितशुक्लकृष्णां बह्रोः प्रजाः सृजमानां मरूपाः । जो ह्येको जुषमाणोऽनुशे ते जहात्येनां भुक्तभोगामजोऽन्यः ॥ ये तद्विदुरमृतास्ते भवन्त्यथेतरं दुःखमेवापि यन्ति 1 इत्यादिरिति ॥ १४८ ॥ ननु पुरुषैक्येऽप्युपाधिरूपावच्छेदकभेदेन जन्मादिव्यवस्था भवेत् तत्राह । उपाधिभेदेऽप्येकस्य नानायोग आकाशस्येव घटादिभिः || १५० ५ उपाधिभेदेऽप्येकस्यैव पुरुषस्य नानोपाधियोगोऽस्त्य व यथेकस्यैवाकाशस्य घटकुड्यादिनानायोगः । व्यतोऽवच्छेदकभेदेनैकस्यात्मन एव विविधजन्ममरणाद्यापत्ति: कायव्यूहादावि वेति न सम्भवति व्यवस्था । एकः पुरुषो जायते नापर इत्यादिरित्यर्थः । न ह्यवच्छेदकभेदेन कपिसंयोगतदभाववत्य For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy