SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमोऽध्यायः । सूत्र पुरुषस्य भोगः स्वीकत इति स्मर्तव्यम्। अपरिणामिनश्च पुरुषस्य भोगश्चिदवसानो भोग इत्यत्र व्याख्यातः ॥१४३॥ किञ्च। कैवल्यार्थ प्रहत्तेश्च ॥ १४४ ॥ शरीरादिकमेव चेभोक्त स्यात् तदा भोक्तः कैवल्यार्थं दुःखात्यन्तोच्छेदाथ कस्यापि प्रत्तिर्नोपपद्येत। शरीरादीनां विनाशित्वात् प्रकलेश्च धर्मिग्राहकमानेन दुःखवाभाव्यसिया कैवल्यासम्भवात् । न हि स्वभावस्यात्यन्तोच्छेदो घटत इत्यर्थः । अत्र कैवल्याधे प्रकतेरिति सूत्रपाठः प्रामादिकत्वादुपेक्षणीयः । सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तभावात् कैवल्यार्थं प्रवृत्तश्च ॥ । इति कारिकातः कैवल्यार्थ प्रवृत्त श्चेति पाठात्। अर्थासङ्गतेश्चेति ॥ १४४॥ चतुर्विंशतितत्त्वातिरिक्ततया पुरुषः साधितः । इदानीं पुरुषगतो विशेषो विवेक स्फुटीकरणायानुमीयते । जड़प्रकाशायोगात् प्रकाशः ॥ १४५ ॥ वैशेषिका आहुः। प्रागप्रकाशरूपस्य जडस्यात्मनो मन:मंयोगाज्ज्ञानाख्यः प्रकाशो जायत इति तन्न । लोके जडण्याप्रकाशस्य लोष्टादेः प्रकाशोत्यत्त्वदर्शनेन तदयोगात्। अतः सूर्यादिवत् प्रकाशस्वरूप एव पुरुष इत्यर्थः। तथा च स्मृतिः। यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते। तहदैक्यं न शंसध्वं प्रपञ्चपरमात्मनोः ॥ इति । यथा दीपः प्रकाशात्मा इस्खो वा यदि वा महान् । जानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु ॥ For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy