SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ चार्यो मन्तव्यः। कान्तारे-भवमहाटव्यां प्रदिशति अभीप्सितपुराध्यानं-मुक्तिमार्ग उत्कन्धरो-दर्शिताहङ्कारविकारः, तथा च सोऽगीतार्थः उत्सूत्रभाषको मिथ्यादृष्टिः कथश्चिदपि सत्पथं मोक्षमार्ग न वेत्ति, नाप्यन्येन गीतार्थेन प्रतिपादितोऽपि प्रत्येति इति कष्टं, एतत्कष्टतरं त्विति पूर्ववत् , सोऽपि प्रागभिहितो यथाच्छन्दाचार्यः सुदृशः-सम्यग्ज्ञानदर्शनयुजः सन्मार्गगान् ज्ञानदर्शनचारित्रलक्षणमुक्तिपथप्रवृत्तान् तद्विदो-मुक्तिमार्गविज्ञान् धार्मिकान् सुविहितसाधून यत् हसति सावज्ञमज्ञानिक, यथा-कममी अगीतार्था मूर्खशिरोमणयः सिद्धान्तरहस्य जानन्ति ?, अहमेव सकलश्रुतपारावारपारश्चा, ततो यमहं ब्रवीमि स मुक्तिमार्ग इति । किमित्येवमुपहसतीत्यत आह-तन्महाकष्टमित्युपमानोपमेययोस्तुल्यतया योजना । अत्र च मुग्धजनपुरतो निरङ्कुशं स्वकल्पितं चैत्यवासादिकमुत्सूत्रपथं प्रथयद्विधिविषयपारतन्त्र्यप्ररूपणानिपुणान् , सुगुरुसम्प्रदायानुवर्तिनः सुविहितानसूययोपहसन् सम्प्रति वर्तमानः कुसङ्घाचार्यवर्गोऽनया भङ्गया कविना प्रतिपादित इति वृत्तार्थः ॥ २९ ॥ साम्प्रतं श्रुतपथावज्ञाद्वारमुपसञ्जिहीर्षुः शुद्धजिनमार्गस्य दुष्टोपचितसमुदितकारणकलापेन सम्प्रति दुर्लभत्वं प्रतिपादयन्नाह सैषा हुण्डावसर्पिण्यनुसमयहूसद्भव्यभावानुभावा ॥ ३० ॥ व्यख्या- 'सैषा हुण्डा॥ एवं अमुना प्रकारेण अनुकूल-प्रतिसमयं दुष्टेषुक्रूरेषु पुष्टेषु सत्सु जैनमार्गो दुर्लभ:-अर्हत्पथो दुष्प्राप्यः, यदा तु क्रूराः पुष्टास्तदा जैनमार्गो दुर्लभो जात इत्यर्थः । एवं कथं ? सैषा हुण्डानाम्नी अवसर्पिणी-कालविशेषः । कथम्भूता- अवसप्पिणी ? अनुसमयं इसद्भव्यभावानुभावा, अनुसमयं-प्रतिसमयं प्रतिक्षणं इसन्-हीयमानः भव्यजनानां शुभभावस्यानुभाव:-प्रभावो यस्यां सा । अयं त्रिंशत् उग्रग्रहश्च । जिनसिद्धान्तोक्ताष्टाशीतिग्रहमध्यात् त्रिंशतः पूरणो भमराशिः, कथम्भूतो भस्मराशिः १ ख-ख-नखमितिवर्षस्थितिः " पश्चानुपूर्व्या अंकरचना ज्ञातव्या" । खंशून्यं, तत्पश्चात् पुनः खं-शून्यं, तत् पश्चान्नख-विशतेरंकः एतावत् (२०००) स्थितिः। अन्त्यदशममाश्चयं च असंयतपूजाऽनाचारप्रतिपादकमाश्चर्यं च तत्समा दुषमा च तैरैव-सपिणीभस्मराशिदशमाश्चर्यैः समा तत्समा दुषमा दुःखकारिणी, तस्यै जिनमतहतये-जिनमर्गोच्छेदनिमित्तं यद्येते तुष्टास्तदा जैनमार्गो दुर्लभ इत्यर्थः ॥३०॥ एवं तावदष्टादशवृत्तः प्रबन्धेन लिङ्गिनां श्रुतपथावज्ञा प्रतिपादिता। संप्रति 'गुणद्वेषधी 'रिति द्वारं निराकुर्वस्तेषां गुणद्वेषं दर्शयन्नाह For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy