SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनमतविमुखविहितमहिताय न मजनमेव केवलं, किन्तु तपश्चरित्र-दानाद्यपि जनयति न खलु शिवफलम् । अविधि-विधिक्रमाजिनाज्ञापि ह्यशुभ-शुभाय जायते, किं पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते ॥ १९ ॥ व्याख्या-जिन ॥ मजनमेव-स्नात्रमेव जिनमत विमुखविहितं-जिनमतातभगवन्मतात् विमुख-विपरीतम् अविधितया विहितं-कृतं केवलं-निकेवलम् अहिताय न किन्तु तपश्चरित्रदानाद्यपि-तप:-अनशनादि, चारित्रं-देशसर्वविरतिरूपं, दानम्-अभयादिरूपम् , आदिशब्दाद् विनयवैयावृत्यादिग्रहणं, तदपि अविधिकृतं खलु-निश्चितं शिवफलं-मुक्तिफलं न जनयति, हि-निश्चितं जिनाज्ञाऽपि-भगवदाज्ञापि अविधिविधिक्रमानअविधिश्च विधिश्च तयोः क्रमात् अशुभशुभाय जायते-भवति, अविधिना अशुभाय, विधिना शुभाय किं पुनरिति विडम्बनैवाहितहेतुर्न प्रतायते, इत्यमुना प्रकारेणाऽविधिक्रियाविडम्बना एवाहितहेतुअहितस्य संसारस्य हेतुः कारणं किं पुनः न प्रतायते न विस्तार्यते अपितु विस्तार्यत एव एतावता अविधिक्रिया विडंबना एव अहितहेतुश्च कथ्यत एव ॥१९॥ जिनगृह-जिनबिम्ब-जिनपूजन-जिनयात्रादि विधिकृतं, दानतपोव्रतादिगुरुभक्तिश्रुतपठनादि चाहतम् । स्यादिह कुमतकुगुरुकुप्राहकुबोधदेशनांशतः, स्फुटमनभिमतकारित वरभोजनमिव विषलवनिवेशतः ॥ २० ॥ व्याख्या-जिन० ॥ जिनगृहं-जिनभवनं, जिनविम्ब-भगवत्प्रतिमा, जिनपूजनं-भगवत्पूजा, जिनयात्रा-अष्टाह्निकादिमहोत्सवः, आदिशब्दाजिनप्रतिष्ठादिग्रहः, एवं धर्मकृत्यं विधिकृतं-शास्त्रोक्तप्रकारेण विहितं दानम्-अभयदानादि, तपः-द्वादशप्रकारं, व्रतानि-स्थूलप्राणातिपातविरमणानि, आदिशब्दात् अभिग्रहादिः, गुरुभक्तिःधर्माचार्यभक्तिः, श्रुतपठनं-सिद्धान्तपठनम् , आदिशब्दात् सिद्धान्तार्थश्रवणादिग्रहणं, च पुनः आदृतम्-आदरेण कृतम् , एसत्सर्वम् इह-प्रवचने कुमत-कुगुरु-कुग्राह-कुबोधकुदेशनांशतः-कुमतं-परतीर्थिकमतं, कुगुरु:-सिद्धान्तार्थमोटकः, कुग्राह:-कदाग्रहः, कुबोधः-कुत्सितज्ञानं, कुदेशना-कुधर्मकथा तासाम् अंश:-लेशस्तस्मात् , स्फुटं-प्रकटम् , अनभिमतकारि-अनिष्टकारि संसारकारणं स्यात् । दृष्टान्तमाह-विषलवनिवेशतो वर For Private And Personal Use Only
SR No.020632
Book TitleSanghpattak
Original Sutra AuthorN/A
AuthorHarshraj Upadhyay
PublisherJinduttsuri Gyanbhandar
Publication Year1953
Total Pages132
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy