SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः । तत्याज्यमेव विप्राणां, भोक्तुं नो युज्यते क्वचित् । ____ अन्नस्य च व्यवस्यैषा, कूपस्याज्यस्य का कथा ? ॥२५॥ श्रूयते च-नीली पट्टे जलं तके, चित्रा गोर्लेच्छमन्दिरे । ___ भिक्षान्नं पञ्चगव्यं च, पवित्राणि युगे युगे ॥२५७॥ अपूतां गुलिकां प्राहुः, पुनः पट्टस्थितां नहि । युक्तं च शुद्धयते हत्या, हत्यया मिलिता सती ॥२५८॥ क्षत्रियाणां च वैश्यानां, शूद्राणां भाण्डतो द्विजैः । तक्रमादीयते तस्मिन् , पक्वमन्नं न गृह्यते ॥२५९॥ कोरमन्नं सदा पूतं, पानीयं ज्वलनोपि च । त्रयाणां योगतः सिद्धं, दूष्यं तत् कथमुच्यते ? ॥२०॥ घृतयोगाच्च भाण्डस्य, पूतत्वं जायते ध्रुवम् । ___ तदा चाण्डालमाण्डस्थं, घृतमादीयते न किम् ? ॥२६॥ ब्रह्मणा विहितां सृष्टिं, प्राहुर्वेदविशारदाः । ते त्वसङ्ख्यास्ततस्तेषु, कतमः सृष्टिकारकः । ॥२६२॥ एकावे समुत्पन्ने, यदेको नाभिसम्भवः । अपरे तु कथं जाता:?, कथमेकश्च कथ्यते ॥२६३॥ प्रादुरासन् कुतो वेदाः?, कतमो हंसवाहनः ? । कतमः पञ्चवक्त्रोऽभूत् , कतमश्चतुराननः ? ॥२६४ ॥ भारती तनया कस्य !, गायत्री कस्य पत्न्यभूत् ? ___अपूज्यः कतमो जातः ? कतमाद्वर्णसम्भवः ? ॥२६॥ कतमाद्वालिखिल्यास्ते, भारती को ह्यकामयत् ।। __दक्षः प्रजापतिः कस्मान् ?, मरीचिस्तु कुतोऽभवत् ॥२६॥ इयं हि लक्षणश्रेणिः, सर्वेषां च समा मता । एकस्य वा तदन्येषां, लक्षणं किञ्चिदुच्यताम् ? ॥२६७॥ शिवशक्तेः समायोगात् , केपि सृष्टिं विदुः परे। ... कुग्जिकारूपमाधाय, शक्त्या सृष्टिं तथैकया ॥२६८॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy