SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः । एवं मतद्वये दृष्टे, मोहश्चित्ते प्रजायते । युक्तायुक्तं विमृश्योच्चै-रेका स्थीयतां स्थिरैः ॥९॥ जलात्सञ्जायते शुद्धि-ज्वलनाच्च विशेषतः ।। उभयोर्योगतश्चोष्णं, जलं पूतं कथं नहि ? ॥९४॥ यत उक्तं गीतायाम् - आपः स्वभावतो मेध्याः, किं पुनर्वह्नितापिताः ।। तस्मात् सन्तः प्रशंसन्ति, शुद्धिष्णेन वारिणा ॥९॥ जलाधारे चर्मचये, जलं क्षिप्तं विशुद्धये । स एव तु कथं शुद्धः, सम्यग्रीत्या विचिन्त्यताम् ॥१६॥ जलं जलचरैर्जुष्टं, तथैव स्यलचारिभिः । दृष्ट्वा प्रत्यक्षतोऽपूतं, पवित्रं मन्यते कथम् ? ॥२७॥ जलाधारे पयोऽदुष्टं, वत्सपीतं तथा पयः। भृङ्गाघ्रातं तथा पद्म, नवापूतं क्वचिद्भवेत् ॥९८॥ वहमानं कराघातं, घटीयन्त्रेण ताडितम् । नवभाजनसंस्थं तु, पवित्रं नीरमुच्यते ॥१९॥ जलाधारे पयोऽदुष्टमिति वाक्यबलादहो ! । विदध्वं स्वेच्छया स्नानं, कुरुध्वं शौचपावनम् ॥१०॥ सुसंसर्गाद्भवेत् पतं, कुसंसर्गादपावनम् । पानीयमिति तत्त्यक्त्वाऽऽग्रहं श्रृणुत मद्वचः ॥१.१॥ ईशसम्पर्कतः शुद्धां, कश्मलामिति भस्मतः । कथमेकान्ततः पूतां, गङ्गां वदत दुधियः ॥१०२॥ त्रयीतेजोमयो भानुः, समस्तं तत्करैः शुचि । जल्पन्तोऽप्येवमाहारं, रात्रौ कुर्वन्ति दुर्धियः ॥१०॥ ‘भारते उक्तम्जलानि यानि जाह्नव्याः, सर्वपापहराणि वै। तान्येव रुधिराण्याहु-रस्तं याते दिवाकरे ॥१०४॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy