SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir समुच्चयः। युगानामेव मूर्द्धन्यं, कलि मन्यामहे वयम् । धेन्वादीनां वधो यत्र, निषिद्धो द्विजहस्ततः ॥६॥ नश्यन्तोऽपि रटन्तोऽपि, बलिभिर्दुबलाः पुनः । हन्यन्ते पशवः पापैः, खादकैर्धर्मकेतवात् ॥६९।। भारते-एकतः क्रतवः सर्वे समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् ॥७॥ इन्द्रियाणि पशून कृत्वा, वेदी कृत्वा तपोमयीम् । अहिंसामाहुतिं कृत्वा, आत्मयज्ञं यजाम्यहम् ॥७१॥ कषायपशुभिर्दुष्टैर्धर्मकामार्थबाधकैः । शममन्त्रहुतैर्यज्ञं, विधेहि विहितं बुधैः ॥७२॥ ध्यानाग्नौ जीवकुण्डस्थे, दममारुतदीपिते । असत्कर्मसमित्क्षेपै-रग्निहोत्रं कुरूत्तमम् ॥७३॥ व्यासशिक्षा भारतादौश्रूयतां धर्म सर्वस्त्रं, श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि, परेषां न समाचरेत् ॥७॥ श्रूयतां धर्मसर्वस्वं, भारतादाविदं वचः । षटूशतानि नियुज्यन्ते; इति मध्ये व्यवस्थितम् ॥७॥ षट्शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनान्यूनानि पशुभित्रिभिः ॥७६॥ प्रान्ते तु शान्तिकं पर्व, सर्वहिंसाविवर्नकम् । __ त्रयाणां कतमद्वयं, सम्यग् ज्ञात्वा निगद्यताम् ? ॥७७॥ आरोग्यं भास्करादिच्छेदित्यसत्यं वचो ध्रुवम् । ___ स्वयं गलितपादोऽसौ, कथं कष्टापहो हहा ! ॥७॥ आकाशकुसुमप्राय, यन्मुक्तिश्च जनार्दनात् । · सहस्रशोऽवतारैश्च, कुर्वतोऽस्य गतागतम् ॥७९॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy