SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra समुच्चयः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकाशान्मेदिनीं प्राप्तस्ततोऽसौ मेदिनीपतिः । एवमेव पुनश्वोक्त्वा, विवेश धरणीतलम् ॥४७॥ अथ महाभारते शान्तिपर्वणि पाण्डवदाहावसरेप्रागू विप्रो मन्दपालस्त्रिदिवभुवमगात्तत्र निष्पुत्र इत्या पायं नैवापायं फलमुरुतपसां बाल्यतो ब्रह्मचारी । तत्कृत्वा शार्ङ्गरूपं हृतसुतकृतये शाङ्गिकायां स्म सुते, यत्पुत्राणां चतुष्कं प्रणतिभिरमुनाऽमोचि वह्नेस्ततस्तत् ॥ ४८ ॥ ते तक्षकसुतोऽश्वसेनः मयश्च सप्तमः कोपि न । महाभारते शान्तिपर्वणि— - रंतिदेव नरेन्द्रेण, गोमेधा बहवः कृताः । तेषां च रुधिरैर्घोरा, प्रावर्त्तत महानदी ||४९ ॥ चर्मण्वतीति विख्याता, सा जने : तीर्थमुत्तमम् । तस्याः स्नानेन शुद्धि: स्यान्, मोहस्य ललितं हि तत् ॥५०॥ द्विधा ऋषय:- एके निवृत्तमांसा एकेऽनिवृत्तमांसाः । ये निवृत्तमांसास्तेषां दधिमधुमिश्रो मधुपर्क:, ये त्वनिवृत्तमांसास्तेषामभ्यागताय श्रोत्रियाय महोक्षं वा महाजं वा वत्सतरीं वा पचतिगृहमेधिनः ॥ इतिवेदे | महोक्षं वा महाजे वा पच्यते वत्सतर्यपि । येषां हेतोः क्षत्रियास्ते, ब्राह्मणा वा निगद्यताम् ॥ ५१ ॥ क्षत्रियाश्चेत्कृतं तेषां वार्त्ताभिः पापकारिणाम् । , ब्राह्मणा यदि तत्तेषां म्लेच्छानां च किमन्तरम् ॥५२॥ नैषधे कलिस अधावत् क्वापि गां वीक्ष्य, हन्यमानामयं मुदा । अतिथिभ्यश्च तां ज्ञात्वा मन्दं मन्दो न्यवर्त्तत ॥ ५३ ॥ गोमेवो नरमेधश्च, अक्षता च कमण्डलुः । कलौ पञ्च न विद्यन्ते, देवरः पुत्रकाम्यया ॥५४॥ For Private And Personal Use Only
SR No.020629
Book TitleSandeh Samucchay
Original Sutra AuthorN/A
AuthorManikyasagarsuri
PublisherRamanlal Jaychand Shah
Publication Year
Total Pages46
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy