SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां " एकवापीजलं यद्वदिक्षौ मधुरतां व्रजेत् । ___ निम्बे कटुकतां याति पात्रापात्रेषु योजितम् ॥ " पुनरपि मंत्री पृच्छति-भो भगवन्, यथा मुनिदानफलातिशयो मया प्राप्तस्तथान्येन केनापि मुनिदानफलातिशयः प्राप्तो न वा ? भगवानाह-दक्षिणदेशे वेनातटपुरे राजा सोमप्रभः । राज्ञी सोमप्रभा । स राजा ब्राह्मणभक्तः । विप्रं विहायान्यः कोपि लोकानां तारको न भवतीत्येवं निरूपयति । तथा चोक्तम् “गोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः । अलुब्धैर्दानशीलैश्च सप्तभिर्दीव्यते जगत् ।।" एकदा तेन राज्ञा स्वमनसि विचारितमहो मया, बहुद्रव्यमुपार्जितमस्ति । तस्य दानाद्युपयोगो गृह्यतेऽन्यथा नाश एव भवति । तथा चोक्तम् "दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य । यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥" इति ज्ञात्वा बहुसुवर्णनामा यज्ञः कारितः । तत्रादिमध्यावसानेषु विप्राणां बहु सुवर्ण ददाति । ___ यज्ञशालासमीपे विश्वभूतिनाम्नो द्विजस्य गृहं तिष्ठति । स विश्वभूतिभोंगोपभोगेषु यमनियमसंयमादियुक्तो निस्पृह-चित्तश्च । तस्य मार्या सती। तथा चोक्तं, भोगोपभोगः--- For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy