________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
सम्यक्त्व-कौमुद्या
तथा चोक्तम्-~
“ विभिर्वस्त्रिभिर्मासैस्त्रिभिः पौस्त्रिभिर्दिनैः ।
अत्युगपुण्यपापानामिहैव फलमश्नुते ॥" तदनन्तरं राज्ञा मनसि विचारित-जिनधर्म विहायेतरधर्मस्येयान्महिमा न दृश्यते । इत्येवं निश्चित्य जिनालये गतः । तत्र समाधिगुप्तमुनेर्दम्पत्योश्च नमस्कारं कृत्वोपविष्टो राजा । तदनन्तरममाणि राज्ञा–भो मुनिनाथ, दम्पत्योर्महोपसर्गो धर्मेणाद्य निवारितः । मुनिनोक्त-भो राजन् , यदिष्टं तत्सर्व धर्मेण भवति । पुनरपि यतिनोक्तं-देव, संसारे धर्म विहाय सर्वमप्यनित्यं । अत एव धर्मः कर्तव्यः । तथा चोक्तम्--- .. " अर्थाः पादरजःसमा गिरिनदीवेगोपमं यौवनं
मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् । धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोद्घाटनं
पश्चात्तापहतो जरापरिगतः शोकाग्निना दह्यते ॥" राज्ञोक्तं-स धर्मः कीदृग्विधः? यतिनोक्तं-हिंसादिरहितः । तथा चोक्तम्" हिंसामंगिषु मा कृथा वद गिरं सत्यामपापावहां
स्तेयं वर्जय सर्वथा परवधू-संगं विमुश्चादरात् । कुर्विच्छापरिमाणसिष्टविभवे क्रोधादिदोषाँस्त्यज
प्रीति जैनमते विधेहि नितरां सौख्ये यदीच्छास्ति ते ॥" ततः संग्रामशूरेण राज्ञा स्वपुत्रासिंहशूराय राज्यं दत्वा समाधिगुप्त
For Private And Personal Use Only