________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
दिने श्मशानमध्ये विद्यासाधनं कृत्वा ध्रुवं जिनदत्तां मारयामि, नोचेत्तग्निप्रवेशं करोम्यहम् । __ एवं प्रतिज्ञां भणित्वा, चतुर्दशीदिने पूजाद्रव्यं गृहीत्वा श्मशाने गतो योगी । तत्र मृतकमेकमानीय तस्य हस्ते खङ्गं बद्धोपवेश्य तस्य महती पूजां विधाय मंत्रजपेन वेतालीमहाविद्याऽऽराधिता । झटिति मतकशरीरे वेतालीविद्या प्रत्यक्षीभूता । भणति स्म च-हे कापा. लिक, आदेशं देहि । योगिना भणितं-भो महामाये, जिनालयस्थितां, कनकश्रीसपत्नीं जिनदत्तां मारय । तयोक्तं-' तथास्तु' इति किलकिलायमाना सा विद्या यत्र जिनदत्ता तिष्ठति तत्र गता । जिनमाहात्म्येन तस्याः सम्यक्त्वमाहात्म्येन च किश्चित् कर्तुं न समर्था ।
ततस्त्रिःप्रदक्षिणीकृत्य व्याघुट्य तत्रैव गता । तद्भयेन योगी पलाय्य गतः । सा तत्रैव श्मशाने पतिता । एवं वारत्रयं जातं । चतुर्थवासरे निजमरणभयेन योगिना भणितं-भो मातः, द्वयोर्मध्ये या दुष्टा तां मारय । इत्येवं प्रस्थापिता विद्या । एतद्योगिवचनं श्रुत्वा निजगृह एकाकिनी सुप्तां कनकश्रियं मारयित्वा रक्तलिप्तखड्गा सा विद्या तत्रैव पितृवनं योगिनोऽग्र आगता । ततो योगिना प्रस्थापिता विद्या । तदनन्तरे विद्या स्वस्थानं गता । सेपि योगी रात्रौ स्वस्थानं प्रति गतः । प्रभातसमये संतुष्टचित्ता बन्धुश्रीनिजपुत्रीगृहं गता । शय्योपरि छिन्नशरीरां दृष्ट्वा पूत्कारं कृत्वा राजपार्श्वे गता, भणितं च-हे देव, मम पुत्री कनकश्रीर्जिनदत्तया सपत्न्या मारिता । इमां वार्ता श्रुत्वा कोपपरायणेन राज्ञा दम्पतीधरणार्थ गृहरक्षणार्थ च भटाः प्रोषताः ।
For Private And Personal Use Only