________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
भनन्ताश्च ते पादाश्च अनन्तपादास्तैः अनन्तकिरणैः केवलं केवलज्ञानात्मकसूर्य उदियाय उदयं पाप ॥ २२ ॥
शुभाष्टमी श्रावणमासवासिनी, यथार्थसम्पूर्णविलासशंसिनी।
बभूव शुभ्रा भुवनेऽहि लक्ष्मणः, सुतीर्थनाथस्य हताष्टकर्मणः ॥ २३ ॥ शुभेति । श्रावणधासौ मासच तस्मिन्बसीति श्रावणमासी या यथार्थाश्च संपूर्णाश्च ते विलासाथ तान् शंसतीति यथार्थ संपूर्णविलासशसिनी । सत्यसमग्रानन्दमूचिनी शुभा शुभकारीणी अष्टमी, इतानि नष्टानि अष्टकर्माणि यस्य, तस्य अहिः सर्पः लक्ष्मणं चिन्हें यस्य तस्य, सुष्टु च तत्तीयं च तस्य नाथ. तस्य स जस तीर्थनाथकस्य शुभ्रा शुक्ला बभूवाऽभवत् ।। २३ ॥
अभूहिशाखा शुभं श्यतीति सा, विशेषतो भव्यशरीरिणां तदा ।
यदात्र वामातनुजन्मनः प्रभो-बभूव कल्याणक पञ्चकं वरम् ॥ २४ ॥
अभूदिति । यदा यस्मिन् काले अत्र जगति प्रभोर्विभो मायास्तनुस्तस्या जन्म यस्य स तस्य पार्वतीर्थश्वरस्य वरं श्रेष्ठं कल्या5 णानां मोक्षानां पश्चकं बभूवाऽभूत् । तदा तस्मिन्समये विशेषतो बहुशो भव्य शरीरं येषां ते भव्यशरीरिणस्तेषां भव्यशरीरिणां भाविकज
नानां अशुभं पापं श्यति खण्डयतीति सा श्रावणमासीयाष्टमी, विशेषेण श्यति पापं नाशयतीति विशाखानामवती बभूवाऽभूत्, हि निश्चयेन ॥२४॥
विशाखतीयं रुचिरं वपुष्मतां, भवेद्विशाखार्थयथार्थनामभृत् ।
For Private And Personal use only