SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir शान्तिनाय विरोधः शत्रुता अर्घ दुःखं विनाशयतीति अघविनाशकारी तस्मै तबोपद्रवविनाशकारिणे सुदर्शनाय गुणजनकोऽभवत् । गुणामिलापिभिस्ततस्तव परिचयोऽपि कार्यः, गुणदातृत्वादित्यनेन तव महत्सामर्थ्य सूचितमिति ॥ १५ ॥ अतीन्द्रियाऽऽस्ते गुणसन्ततिस्त्वयि, प्रतीयते चर्मदृशा न सा कथम् ?।। स्वदाकृती रूपमयी रमाश्रिता, विमोहितानेकशचीशचीवरा ॥ १६ ॥ अतीति । ते तव गुणानां सन्ततिः पंक्तिः सा इन्द्रियग्रहितमशक्यत्वाचर्मक् दष्टि यस्य तेन चर्मद्रष्टिना पुरुषेणत्वधि न प्रतीतिविषयी क्रियते, तथापि चर्मदृशा चर्मदृष्टिना, सा कथं न प्रतीयते प्रतीतिविषयी क्रियते ? । सा इति का विमोहिताः मोहे माप्ता अनेकाश्च शच्यः शचीषु वराः विमोहिता, अनेकशच्यः शचीवराः, यया सा विमोहिता पुलोमजा वरानेकेन्द्राणी रमया शोभया आश्रिता अंचिता रूपमचुरा रूपमयी तव आकृती त्वदाकृती सा तवाकृतिर्जनेन दृष्टच्या शुभत्वात्पापविनाशकत्वाच ॥१६॥ स्तुमोऽश्वसेनक्षितिरक्षिणं वयं, क्षणे क्षणे तं हतशत्रुदुष्कृतम् । कुलाम्बरे यस्य विलक्षणो विधु-र्भुजङ्गमाङ्कः समजायत प्रभुः ॥ १७॥ स्तुमेति । क्षणे क्षणे प्रतिक्षणं इतं विनाशितं, शत्रवः रिपवः एव दुष्कृतं पापं, येन स तं प्रसिद्धं, अश्वानां सेना यस्य वित्याः | भुवः रक्षतीति रली अश्वसेनाभिधानभूपालं वयं स्तुमः स्तुति कुर्मः यस्य राज्ञः कुलं वंश एवाम्बरमाकाशं तस्मिन् विलक्षणः विश्वचन्द्रभित्रः कुतः ? स तु मृगलान्छन असमर्थश्चामावास्यायां विनाशित्वात् अयं तु भुजङ्गमः सर्प अङ्को लांछन यस्य स प्रभुः समर्थश्व एतादृशविलक्षणोः विधुः चन्द्रः समजायत उत्पन्नोऽभूत् विलक्षणचन्द्रजनिभूमित्वात्स्तुतिपात्रत्वमित्यर्थः ॥ १७ ॥ ॥२५ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy