________________
Shri Maha
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
yanmandir
आचाररत्वं
प्राणायाम.
॥३९॥
तिछंदोगपरिशिष्टाच। एताव्याहृतयःसप्त एतांगायत्रीं अनेनशिरसा एभिःप्रणवैः दशभिरितियथाप्राप्तानुवादः प्रतिप्रतीकमित्युक्तः नतुसंततमोंकारदशकं ।व्याहृतयःसप्त। भूर्भुवःखमहर्जनस्तपःसत्यंतथैवच । इतिसप्तव्याहृतयःप्राणायामेषुनित्यशइतिचंद्रिकायांयोगया ज्ञवल्क्योक्तेः । व्यासः-आदानंरोधमुत्सर्गवायोखिस्त्रिःसमन्यसेत् । शांतिहेमाद्रौयोगयाज्ञवल्क्यः -नासिकाकृष्टउच्छासो धृतःपूरकउच्यते । कुंभकोनिश्चलश्वासोरिच्यमानस्तुरेचकः । नीलोत्पलदलश्यामंनाभिदेशेव्यवस्थितम् । चतुर्भुजंमहात्मानपूरकेणविचिंतये त् । कुंभकेनहृदिस्थानेध्यायीतकमलासनम् । ब्रह्माणंगौरवणेचचतुर्वक्रपितामहम् । रेचकेनेश्वरंविद्याल्ललाटस्थंमहेश्वरम् । शुद्धस्फटिकसंकाशं निर्मलंपापनाशनम् । पूरकेणेत्यादितृतीयासप्तम्यर्थे । गौरंरक्तम् । रक्तंप्रजापतिध्यायेदितिव्यासोक्तेः । पूरकादीनांमिलितानांप्राणायाम त्वम् । पूरककुंभकरेचैःप्राणायामस्त्रिलक्षणोज्ञेयइतियोगयाज्ञवल्क्योक्तेः । प्रत्येकंत्रिमंत्रपाठप्रत्येकंप्राणायामत्वमित्याचारादर्शः । शौनकः-नासिकामंगुलीभिश्चतर्जनीमध्यमादृते । दक्षिणेनसमाकृष्यसव्येनतुविसर्जयेत् । देवजानीयेस्मृत्यंतरे-दक्षिणेश्वासमाह त्यवाभेचैवविसर्जयेत् । शांतिहमाद्रावीश्वरगीतासु-रेचकंदक्षिणेप्रोक्तंपूरकंवामतश्चरेत् । जपारंभेतुविज्ञेयोविपरीतश्चसंस्थितौ । सं स्थितिःसमाप्तिः। विपरीतोदक्षिणेनपूरकोवामनरेचकइत्यर्थः । बहुचपरिशिष्टे-दर्भपाणिःप्रथमममंत्रकंपंचदशमात्रिकंप्राणायामत्रयंक त्वासमंत्रकंसकृत्कुर्यादिति ॥ ॥ मात्रास्वरूपमुक्तंसंग्रहे-यावत्कालंत्रिरावेष्टयजानुहस्तेनदक्षिणम् । छोटिकाकरणंयत्सामात्रेतिपरि पठ्यते । मात्राभिःपंचदशभिःप्राणायामोऽधमःस्मृतः । मध्यमोद्विगुणःश्रेष्ठस्त्रिगुणोधारणास्मृता । विज्ञानेश्वरोप्येवम् । गायत्रीरह स्वस्मृतिसारे-पंचांगुलीमिर्नासाग्रपीडनंप्रणवाभिधा । मुद्रेयंसर्वपापघ्नीवानप्रस्थगृहस्थयोः । कनिष्ठानामिकांगुष्ठैनासाग्रस्यचपीडनम् ।
॥३९॥
- १ वनस्थस्ययतेस्तथाइतिपाठः।
For Private And Personal