SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavila Aradhana Kendra आचारर ॥ १८ ॥ www.kobatirth.org Acharya Shri KailashsagarGyanmandir | मार्कडेयपुराणे — देवार्चनादिकार्याणितथागुर्वभिवादनम् । कुर्वीतसम्यगाचम्य तद्वदेवभुजिक्रियाम् । बृहस्पतिस्मृतौकर्मप्रदीपेच| पितृमंत्रानुचरणेआत्मालंभेक्षणे तथा । अधोवायुसमुत्सर्गेआकंदे क्रोधसंभवे । मार्जारमूषिकास्पर्शेप्रहासेनृतभाषणे । निमित्तेष्वेषुसर्वेषुकर्मकुर्वन्नपः स्पृशेत् । आलंभेविहितेहृदयस्पर्शइतिकल्पतरुः । आत्मस्तुतावितिवर्धमानः । स्पृशेदितिस्पर्शमात्रमितिस्मृतिरत्नावलिः । आचामेदि तिवर्धमानः । मार्जारकर्तृके स्पर्शे आचमनंस्वयंकृतेनानमित्या चारचंद्रोदयः । वनमार्जारस्पर्शेस्नानम् । अभोज्यसूतिकाषंढमार्जाराखूंश्च कुक्कटान् । संस्पृश्यशुद्ध्यतिस्नानादुदक्याग्रामसूकरावितिवचनादितिशूलपाणिः । केचित्तुमार्जारस्पर्शः पुच्छान्यदेशपरः । कर्मकालेअबुद्धि | पूर्वस्पर्शविषयोवा । पुच्छेविडालकंस्पृष्ट्वास्नात्वाविप्रोविशुद्ध्यति । भोजनेकर्मकालेचविधिरेष उदाहृतइतितत्रैवबुद्धिपूर्वेस्खानविधानादन्यदाशु | चिरेव । मार्जारश्चैवदवचमारुतश्चसदाशुचिरितिमनूक्तेरित्याहुः । याज्ञवल्क्यः — रौद्रपित्र्यासुरान्मंत्रांस्तथाचैवाभिवारकान् । व्याहृत्या लभ्यचात्मानमपःस्पृष्ट्वान्यदाचरेत् । अपःस्पृष्ट्वान्यदाचरेदित्युक्तेर्यत्ररौद्रा दिपाठोत्तरं कर्मनोक्तं तत्रनोदकस्पर्शः । संग्रहे - श्राद्धारंभेऽवसानेच चपादशौचार्चनांतयोः । विकिरेपिंडदानेचकुर्यादाचमनंकृती । तत्रप्रथममेवद्विःशेषाणितु सकृत्सकृत् । चंद्रिकायांकौमें— उच्छिष्टंपुरुषं दृष्ट्वाऽभोज्यंचापितथाविधम् । आचामेदश्रुपाते चलोहितस्य तथैवच । शातातपः - आचामेच्चर्वणेनित्यंमुक्त्वातांबूलचर्वणम् । ओष्ठौ | विलोमकौस्पृष्ट्वावासोविपरिधायच । चर्वणेआदावंतेच । अनाचम्यभक्षणेऽष्टशतजपो भोजनेतूपवासइतिस्मृत्यर्थसारात् । अपरार्केत्राणस्यायमनं कृत्वा आचामेत्प्रयतोपिसन् । मनुः – वेदमध्येष्यमाणश्चाप्यन्नप्रश्नंश्चसर्वदा । आचामेदितिसंबंधः । विष्णुः --- पंचनखा स्थिनिःसेहंस्पृष्ट्वाचामेच्चंडालम्लेच्छसंभाषेचेति । पाराशरे – श्वपाकंवापिचंडालंविप्रः संभाषतेयदि । द्विजसंभाषणं कुर्यात्सावित्रींतुसकृञ्जपेत् । | उच्छिष्ठैः सहसंभाषेत्रिरात्रेणविशुद्ध्यपि । द्विजोनूचानइति माधवः । चंद्रिकायांपा - चंडालादीन्जपहामेद्दृष्ट्वाचामेद्विजोत्तमः । | For Private And Personal आचमनं. ॥ १८ ॥
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy