________________
Shri Mala Jain Aradhana Kendra
आचाररत्नं
॥ १७ ॥
www.kobatirth.org
Acharya Shri Kailashsagarri Syanmandir
योगेनस्पृशेत्स्कंधद्वयंततः । नार्भिचहृदयंतद्वत्स्पृशेत्पाणितलेनतु । संस्पृशेञ्चतथाशीर्षमयमाचमनेविधिः । चंद्रोदयेपैठीनसिः – अग्निरंगु ष्ठस्तस्मात्तेनैव सर्वाणिस्पृशेदिति । आश्वलायनः – पाणिनापोऽग्निमंत्रेणअवसृज्याथसंस्पृशेत् । विप्रस्यनेतराणांतुतन्मुखालंभनंस्मृतम् । सूर्यायदक्षिणेनेत्रेवामेसोमायवायवे । नसोर्दिग्भ्यः श्रवणयोर्वा होरिंद्रायसंस्पृशेत् । पृथिव्यैपादयोर्जान्वोरंतरिक्षायगुह्यके । दिवेनाभौब्रह्मणेचवि | ष्णवेहृदयेतथा । शिवायेतिशिरस्यंतेहस्तंप्रक्षालयेत्ततः । अंगुष्ठतर्जन्यग्राभ्यांनेत्रयोराचमंस्पृशेत् । अंगुष्ठमध्यमाभ्यांचनासाश्रवणयोस्ततः । अंगुष्ठा नामिकाभ्यांचकनिष्ठाभ्यां चबाहुके । सांगुष्ठैरखिलैरेवस्थानेष्वन्येषुसंस्पृशेत् । व्याघ्रपादः - केशवादित्रिभिः पीत्वाचतुर्थेनमृजेत्करम् । पंचमे | नचषष्ठेनद्विरोष्ठावुन्मृजेत्क्रमात् । तौसप्तमेनावमृजेदेकवारंतुमंत्रवित् । अष्टमेनतुमंत्रेणत्वभिमंत्र्यजलंशुचि । वामंसंप्रोक्षयेत्पाणिमन्यंचनवमेनच । दक्षिणंदशमेनांत्रिंवाममेकादशेनवै । मूर्धानंद्वादशेनाथस्पृशेदूर्ध्वोष्ठपृष्ठकम् । संकर्षणाय नमइत्यनेनांगुलिमूर्धनि । अंगुष्ठतर्जन्यग्राभ्यांसंस्पृष्टाभ्यांज लैःसह। नासारंध्रेवासुदेवंप्रद्युम्नाभ्यामुभेस्पृशेत्। अंगुष्ठानामिकाभ्यांचसंश्लिष्टाभ्यांजलैः सह। अनिरुद्धायनमइतिसंस्पृशेद्दक्षिणेक्षणम् । पुरुषोत्तममं त्रेणताभ्यांवामांस्पृशेदृशम् । तथांगुष्ठकनिष्ठाभ्यांसंश्लिष्टाभ्यांजलैः सह । अधोक्षजनृसिंहाभ्यां श्रोत्रेद्वेसंस्पृशेत्क्रमात् । नाभिमच्युतमंत्रेणताभ्यामेवस्पृ | शेदुधः । श्रीजनार्दनमंत्रेणतलेनहृदयंस्पृशेत् । उपेंद्रायेतिमूर्धानंस्पृशेत्सजलपाणिना । सर्वांगुल्यग्रभागैस्तुसमाश्लिष्टैर्जलैः सह । भुजौतुहरिकृ ष्णाभ्यांसंस्पृशेद्दक्षिणोत्तरौ । प्रयोग पारिजाते भरद्वाजः — देव्याः पादैस्त्रिभिः पीत्वा अब्लिंगैर्नवधास्पृशेत् । पुनर्व्याहृतिगायत्र्याशिरोमंत्रैर्द्वि धास्पृशेत् । स्मृत्यर्थसारे—तदोंकारेणाचमनंयद्वाव्याहृतिभिर्भवेत् । सावित्र्याचापिकर्तव्यंयद्वाकार्यममंत्रकम् । तैत्तिरीयश्रुतौ — त्रि राचामेद्विःपरिमृज्यसकृदुपस्पृश्यशिरश्चक्षुषीनासिके श्रोत्रेहृदय मालभतइति तदेतद्ब्रह्मयज्ञप्रकरणपाठात्तदंगमेवेति नपुरुषार्थाचमने कर्मागाचम नेवाप्रवर्तते । हेमाद्रीबौधायनः – त्रिः परिमृजेद्विरित्येकइति । तत्रैवकण्वः - अथर्ववेदेतिहासपुराणानिध्यायन्ब्राह्मणतीर्थेनोष्ठयोः
For Private And Personal
आचमनं .
॥ १७ ॥