SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahar www.kobatirth.org adhana Kendra a nmandir Acharya Shri Kailashsag आचाररत्न देवपूजा. ॥८६॥ णिशंकरे । चत्वारिकेशवेदद्यात्सप्ताश्वत्थेप्रदक्षिणाः । बृहन्नारदीये-एकांचंड्यांरवौसप्ततिस्रोदद्याविनायके । चतस्रःकेशवेदद्याच्छिवेत्व प्रदक्षिणम् । पदांतरेपदंन्यस्येत्करौचलनवर्जितौ । स्तुतिर्वाचिहृदिध्यानंचतुरंगंप्रदक्षिणम् । लैंगे-सव्यंब्रजेत्ततोऽसव्यप्रणालंनैवलंघयेत् । स्कांदे-प्रदक्षिणंप्रकुर्वीतशतमष्टोत्तरंतथा । बृहन्नारदीये-शिवप्रदक्षिणेमर्त्यःसोमसूत्रनलंघयेत् । प्रदक्षिणाप्रकारस्तु-वृषंचंडं| वृषंचैवसोमसूत्रपुनर्वृषम् । चंडंचसोमसूत्रंचपुनश्चंडंपुनर्वृषम् । प्रतिष्ठाहेमाद्रौ-प्राच्यांनंदिमहाकालौयाम्ये गिविनायकौ । वारुणे पभस्कंदौदेवीचंडौतथोत्तरे । त्रैविक्रम्यांत्वीशान्यांचंडउक्तः। तत्रैव-बाणलिंगेचलेलौहेसिद्धलिंगेस्वयंभुवि । प्रतिमासुचसर्वासुनचं डोऽधिकृतोभवेत् । आदित्यपुराणे-लिंगेखायंभुवेचैवरत्नेतैजसनिर्मिते । सिद्धप्रतिष्ठितेचैवनचंडोधिकृतोभवेत् । तथा-अपसव्यंयतिः कुर्यात्सव्यंतुब्रह्मचारिणः । सव्यापसव्यंगृहिणोनियंशंभोःप्रदक्षिणम् । तृणैःकाष्ठैस्तथापण पाषाणैर्वेष्टकादिभिः । अंतर्धानंपुरःकृत्वासोमसूत्रं तुलंघयेत् । तत्प्रमाणंतत्रैव-प्रासादविस्तारसमानसूत्रंसोमस्यसूत्रेदिशिसोमसूत्रम् । सूत्राद्धहिलंघनतोनदोषःस्यादोषआभ्यंतरलंघनेन । |शिल्पशास्त्रे-लिंगमस्तकमध्यात्तुसूत्रस्यादाप्रणालकम् । लिंगप्रणालीपुष्टत्वंतावदेवप्रकीर्तितम् । विशेषांतरंतत्रैव-सोमसूत्रद्वयंय | वयत्रवाविष्णुमंदिरम् । अपसव्यंनकुर्वीतकुर्वीतैवप्रदक्षिणम् । केदारखंडे-वृषभांतरितोभूत्वापीठकांतरमेवच । प्रदक्षिणनकुर्वीतकुर्वन्किल्बिष माप्नुयात् । कालिकापुराणे-स्पृष्ट्वारुद्रस्यनिर्माल्यंसवासाआप्लुतःशुचिः । इदमशुचिविषयम् । निर्माल्यंयोहिमद्भक्त्याशिरसाधारयिष्यति । अशुचिभिन्नमर्यादोनरःपापसमन्वितः । नरकेपच्यतेधोरेतिर्यग्योनौचसंभवेदितिस्कांदादितिश्रीदत्तः। अपास्तएवायंदोषःस्कांदेशिवनिर्माल्यभोक्तारःशिवनिर्माल्यलंघकाः । शिवनिर्माल्यदातारःस्पर्शस्तेषांहिपुण्यहृत् । शिवैकभक्तानांननिषेधः । पादोदकंचनिर्माल्यंभक्त । झुर्यविशेषतइत्यग्निपुराणात् । निर्माल्यंधारयेद्भक्त्याशिरसापार्वतीपतेः । राजसूयस्ययज्ञस्यफलंप्राप्नोतिनिश्चितमित्यादित्यपुराणाच्च । ॥८६॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy