SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahyen Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir आचाररत्नं ॥७२॥ येत्सर्वान्योविप्रोभक्तितत्परइतिपारिजातेवृद्धपराशरोक्तेः । सएव-नानेवस्त्रेचनैवेद्येदद्यादाचमनंहरेः । अत्रपितृचरणाः-सुव IS) देवपूजा. प्रतिमादौतंडुलपुंजादिषुचषोडशायुपचारपूजैव । आवाहनाभावेपूजायाअसंभवात् । पंचोपचारादशोपचारास्तुपूर्वस्थापितदेवेष्वित्यूचुः। | प्रतिमाविचारः । भविष्ये-सौवर्णीराजतीताम्रीमृन्मयीचतथाभवेत् । पाषाणधातुयुक्तावारीतिकांस्यमयीतथा । शुद्धदारुमयीवा पिदेवता प्रशस्यते । अंगुष्ठपर्वादारभ्यवितस्तियावदेवतु । प्रतिमाचतथाकार्यानाधिकाशस्यतेबुधैः । पंचरात्रे-मृद्दारुलाक्षागोमेदमधू |च्छिष्टमयीनतु । स्मृतिसारेपुराणे-शैलीदारुमयीलौहीलेप्यालेख्याचसैकती। मनोमयीमणिमयीप्रतिमाष्टविधास्मृता । चलाचलेतिद्वि विधाप्रतिष्ठाजीवमंदिरम् । प्रयोगपारिजातविष्णुधर्म-तयोरसंभवेचैवसाचेहनवधास्मृता । रत्नजाहेमजाचैवराजतीताम्रजातथा । रैतिक्यर्चातथालौहीशैलजाद्रुमजातथा । अधमाधमाविज्ञेयामृन्मयीप्रतिमाचया । रैतिकी पित्तलजा । स्मृतिसारे-नाया॑गृहेश्मजा | मूर्तिश्चतुरंगुलतोधिका । नवितस्त्यधिकाधातुसंभवाश्रेयइच्छता । देवीपुराणे-सप्तांगुलंसमारभ्ययावच्चद्वादशांगुलम् । गृहेष्वर्चासमाख्या | ताप्रासादेचाधिकाशुभा । कपिलपंचरात्रे-मानांगुलप्रमाणेनदशपंचदशांगुला । गृहेतुप्रतिमापूज्यानाधिकातुप्रशस्यते । यशीर्षपंच रात्रे-दशागुलप्रमाणावातिथ्यंगुलमितापिवा । दानमदनरत्नेप्येवम् । तत्रैवमात्स्ये-व्रीहिभिर्वात्रिभिश्वोरधमांगुलमीरितम् । मध्यमंतुत्रिभिःसार्धेश्चतुर्भिश्चतथोत्तमम् । मानांगुलमितिख्यातमात्रांगुलमथोच्यते । गोविंदराजीये देवीपुराणे-तथाचोर्ध्वस्थिताका यासदादेवीचतुर्भुजा । अन्यथातुनकर्तव्याकृताभयकरीसदा । अप्रभुजासदाकार्याप्रासादेवागृहेतथा । ऊर्ध्वस्थितागृहेघोरारौद्राचाभिभवेद्युधि । Koil७२॥ गृहेनसजटापूज्याशैलजापितथैवच । अष्टभुजाऊर्ध्वाधोरेतिगोविंदराजः । वाराहे-गृहेग्निदग्धाभग्नाश्चना :पूज्यावसुंधरे । एतासां | पूजनान्नित्यमुद्वेगंप्राप्नुयाही । स्कांदे-शालग्रामशिलायास्तुप्रतिष्ठानैवविद्यते । महापूजांतुकृत्वादौपूजयेत्तांततोबुधः। बृहदामने For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy