SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie सुखावहोऽमुको दुःखावहोऽमुकः सालोकोऽमुको निरालोकस्ततः स प्रस्थाप्यमान आचार्य विज्ञपयति । यथा मम श्लेष्मा प्रस्पन्दतेऽथवा प्रवाते स्वपतोजीर्णमुपजायते यदि वा धर्ममध्यासितुं न शक्नोमि । अथवा अमुक अमुकं च साधुमहं सदैव प्रतिपृच्छामि तत एतयोर्मध्ये मम शय्यासंस्तारकभूमिमनुजानीत यदि वा प्रस्थापित स्तत्र गत्वा तत् गृहमालोक्यात्मनः संसाधकं प्रदेशमाचार्यस्य श्लेष्मप्रस्पन्दनादिकारण प्रकाशनपुरस्सरं सन्देशयति यथामुकाममुका मे संस्तारकभूमिमनुजानीतेति तथा चाहदीवेउं तं कजं गुरुं व अन्नं व सोउ अप्पाहे । ते विय तं भूयत्थं नाउं असढस्स वियरंति ॥५॥ तत् श्लेष्मप्रस्पन्दनादिकार्य दीपयित्वा प्रकाश्य गुरुमाचार्यमन्यं वा स्पर्धकपतिमुपाध्यायादिकं अप्पाहेति सन्देशयति । तेऽपि च गुरवोऽन्ये वा यत्सन्दिष्टं साक्षात्कथितं वा तत् भूतार्थ यथावस्थितं ज्ञात्वा तस्या शठस्य तो शय्यासंस्तारकभूमि वितरन्ति । अह पुण कन्दप्पातीहिमग्गते तो उ तस्स न दलंति । एवं तु पिंडसुत्ते पत्तेय इहं तु वुच्छामि ॥६॥ ___अथ कन्दादिभिर्मार्गयति । कन्दर्पनिमित्तमन्यद्वा किञ्चित् शठत्वमवलम्ब्य विज्ञपयति तदा तस्य न ददति नानुजानन्ति । अथवा जमिणं सेजासंथारयं लभिजा इत्यादि सूत्रस्यायमर्थ:-शय्या एव संस्तारका शय्या संस्तारकः । स च द्विधाफलक संस्तारकः कचि(थि)संस्तारको वा। तस्य योग्रेतनः संस्तारकः खरकस्तत्र स्वपतः पार्थाणि दुःखायन्ते । ततस्तेन पूर्व मृदुकुले गत्वा मृदुः संस्तारकोऽनुज्ञापितः तत्र आचार्यसमीपमागत्य विज्ञपयति यं यं शय्या संस्तारकं लभेत स ममैव स्यात् । तत्र यदि स्थविरस्तिस्याशठत्वमालोक्यानुजानन्ति तदा स तव (तस्य) स्यात् अथ शठ इति कृत्वा तस्य नानुजानन्ति तर्हि For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy