SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यव हारसूत्रस्य ॥ ४९ ॥ ******++++***** www.kobatirth.org तत्र यदि षडपि जुङ्गितास्तत्र भाजनानि च दातव्यानि, अथ सर्वेषामपि भाजनानि न पूर्यते तर्हि यावतां पूर्यते तावतामुपन्यस्तक्रमेण दातव्यानि विपर्यासे उक्तक्रमव्यत्यासेन दाने प्रायश्चिचं चत्वारो लघवः अथ संयताः संयत्वश्च जुङ्गिताः सन्ति तत्र भाजनसंभवे सर्वेषामविशेषेण दातव्यं अथ तावन्ति भाजनानि न पूर्यन्ते ततः संयतसंगती समुदायेच्छिन्नपादादिक्रमेण दातव्यम् । अथ संयतोऽपि विपादः संयत्यपि चिन्नपादा एवं सर्वत्र विभाषा कर्तव्या । तत्राद- सरशे जुङ्गितत्वे पूर्व श्रमणीनां दातव्यं पश्चात्सति संभवे संयतानामन्यथा विपर्यासे त एव चत्वारो लघवः ॥ सम्प्रति निर्दिष्टस्य दाने विधिमाह यह एते उन हुज्जा ताहो निद्दिठ पायमूलं तु । गन्तृण इच्छकारं काउं तो तं निवेज्जंति ॥ २६० ॥ अथ एतेऽध्वनिर्गतादयः प्रागुक्ता न स्युस्ततो यस्य निर्दिष्टं तस्य पादमूलं गत्वा इदं पात्रं मयायुष्मन्निमित्तमानी मिच्छाकारेण गृहीत । एवमिच्छाकारं कृत्वा निवेदयति समर्पयति दिठे पुण तहियं पेसि अहवा वि तस्स अप्पाहे । यह उन नज्जइ ताहे श्रोसरणे सुं तिसु विमग्गे ॥२६ १ ॥ अथ स न दृष्टो यस्य निर्दिष्टं ततो अन्यस्य हस्ते कृत्वा तत्र प्रेषयति । अथवा साधुं श्रावकं वा तत्र व्रजन्तं संदेशयति यथा तव योग्यं पात्रं मयानीतं इच्छाकारेणागत्य गृहीत प्रेषयत वा कमपि यो नयतीति । अथ पुनः स न ज्ञायते क्वापि तिष्ठतीति, ततस्त्रिषु क्षुल्लकेषु समवसरणेषु मृगयेत । इयमत्र भावना - श्रज्ञायमाने समाने समवसरणं साधुमेलापकरूपं गत्वा पृच्छयते यथा अमुकः कुत्र विद्यते तत्र यदि स्वरूपतो न दृष्टो नापि वार्त्तयोपलब्धस्तथापि द्वितीये समवसरणे पृच्छयते For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ++++++++++**++++ अष्टम विभागः । अ० उ० ॥ ४९ ॥
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy