SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जगन्नाथपण्डितराजः। "जगन्नाथपण्डितस्तैलङ्गदेशाज्जयपुरे समागत्य पाठशालां स्थापितवान् , पराजितवांश्च विवादे तत्र दिल्लीनगरादागतं 'काजी'ति प्रसिद्धं कंचन यवनपण्डितं सत्वरमेव तन्मत ग्रन्थानधीत्य. ततश्च 'काजी'मुखात्तद्विद्याबुद्धिचमत्कारमाकर्ण्य परितुध्यता दिलीनरेन्द्रेण पण्डितो जयपुरात्समाहूतः, सभाजितश्च. तत्र च कस्वांचन येवनकन्यायामासक्तो बादशाहानुग्रहेण तां परिणीय तया सह सुखेनातिवाहितवान्यौवनं बादशाहसमाश्रय एव. वार्धके च वाराणस्यां गतो 'यवनीसंसर्गदूषितोऽयम्' इत्यप्पदीक्षितादिपण्डितैस्तिरस्कृतो झातिबहिष्कृतश्च गङ्गातटे गत्वा सोपानपतिशिखरे समुपविष्टस्तत्क्षणनिभितैर्भक्तिभरितैः पद्यैर्गङ्गां स्तोतुमुपचक्रमे. भक्तवत्सला गङ्गापि प्रतिश्लोकमेकैकं सोपानमधिरोहन्ती द्वापञ्चाशन्मिते श्लोके प्रणीते प्राप्तवती पण्डितराजोपकण्ठम्, प्लावितवती च सत्वरमेव यवनीसमेतमेतम्. ततथासूयामत्सराभ्यां दृषिता वाराणसेयाः पण्डितास्तादृशं पण्डितराजप्रभावमालोक्यातीव विलक्षा बभवः' इत्येके वदन्ति. अपरे त्वेवं कथयन्ति--"दिल्लीनरेन्द्रकृपापात्रता प्राप्तस्य तत्प्रसादालव्धश्रियस्तारुण्यतिमिरतिरस्कृतविवेकालोकस्य जगन्नाथपण्डितस्य बभूव कस्यांचन यवनयुवत्यामासक्तिः. सा च कियत्कालानन्तरं पञ्चत्वं गता. ततस्तद्विरहातुरः पण्डितोऽपि दिली परित्यज्य वाराणस्यामागतस्तदाचरणमाकर्णितवद्भिस्तत्रयैः पण्डितैरनादृतो दुराचरणानु १. जयपुरे तु महाराष्ट्रदेशस्थब्राह्मणः सम्राड्जगन्नाथपण्डितो भिन्न एवासीत्, यत्संततिरद्यापि जयपुरसमीपे ब्रह्मपुर्या वर्तते, यश्च महाराजसवाइजयसिंहाज्ञया १७३१ ख्रिस्ताव्दे सिद्धान्तसम्राजम् , सिद्धान्तकोस्तुभम्, पञ्चदशाध्यायात्मकस्य 'श्रीक भाषानिबद्धस्य 'यूक्लीप्रणीतस्य ग्रन्थस्य रेखागणितनामक संस्कृतानुवादं च विरचितवान्. महाराजसवाईजयसिंहस्तु १६८८ खिस्ताब्दे जन्म लेभे, १७०० ख्रिस्ताब्द राज्यसिंहासनमधिरूढः, १७१४ ख्रिस्ताब्देऽश्वमेधयागं कृतवान् , १७२८ ख्रिस्तान्दे च परलोकं जगामेति जयपुरोतिहासे समुपलभ्यंत. २. 'यवनीरमणी विपदः शमनी कमनोयतमा नवनीतसमा । उहिहिवचोऽमृतपूर्णमुखी स सुखी जगतीह यदङ्कगता ॥', 'यवनी नवनीतकोमलाङ्गी शयनीय यदि नीयते कदाचित् । अवनीतलमेव साधु मन्ये न बनी माघवनी विनोदहेतुः ॥', 'न याचे गजालि न वा वाजिराजिन वित्तषु चित्तं मदीयं कदापि । इयं सुस्तनी मस्तकन्यस्तहस्ता लवङ्गी कुरङ्गीदगङ्गीकरोतु ।।' इत्याद्याः प. ण्डितराजप्रणीता यवन्यासक्त्यनुमापकाः श्लोकाः सन्तीति केचिद्वदन्ति, परमेते पण्डि. तराजग्रन्थेष्वस्मदृष्टेषु नोपलभ्यन्ते. ३. सैव स्तुतिरधुना 'गङ्गालहरी'नाम्ना प्रसिद्धा सर्वत्र भागीरथीभक्तः पठ्यते. ४. अत्र भामिनीविलासस्य तृतीयो विलासः प्रमाणमिति वदन्ति, तैस्तु रसगङ्गाधरे करुणप्रकरणे समुदाहृतात् 'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुलप्रणयम् । हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥' इत्यस्मात्पद्यात्पण्डितस्य पुत्रमरणमपि कुतो नानुमीयते ? For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy