SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। चातिशयान्वितम्' इति प्राचां सूत्रमनुकूलम् । तस्योत्तरसूत्रगतस्य क्रमेणेति पदस्थापकर्षानपकर्षाभ्यां व्याख्याद्वयस्य संभवात् । मध्यस्थे तु मते करुणशान्ताभ्यां विप्रलम्भस्य माधुर्यातिशये यदि सहृदयानामनुभवोऽस्ति साक्षी तदा स प्रमाणम् । वीरबीभत्स द्वेष्वोजसो. यथोत्तरमतिशयः । उत्तरोत्तरमतिशयितायाश्चित्तदीप्तेर्जननात् । अद्भुतहास्यभयानकानां गुणद्वययोगित्वं केचिदिच्छन्ति । अपरे तु प्रसादमात्रंम् । प्रसादस्तु सर्वेषु रसेषु सर्वासु रचनासु च साधारणः । गुणानां चैषां हृतिदीप्तिविकासाख्यास्तिस्त्रश्चित्तवृत्तयः क्रमेण प्रयोज्याः। तत्तद्गुणविशिष्टरसचर्वणाजन्या इति यावत् । एवमेतेषु गुणेषु रसमात्रधर्मेषु व्यवसितेषु मधुरा रचना, ओजस्वी बन्ध इत्यादयो व्यवहारा आकारोऽस्य शूर इ. त्यादिव्यवहारवदौपचारिका इति मम्मटभट्टादयः । येऽमी माधुर्योजःप्रसादा रसमात्रधर्मतयोक्तास्तेषां रसधर्मत्वे किं मानम्, प्रत्यक्षमेवेति चेत्, न । दाहादेः कार्यादनलगतस्योष्णस्पर्शस्य यथा भिन्नतयानुभवस्तथा द्रुत्यादिचित्तरत्तिभ्यो रसकार्येभ्योऽन्येषां रसगतगुणानामननुभवात् । तादृशगुणविशिष्टरसानां द्रुत्यादिकारणत्वात्कारणतावच्छेदकतया गुणानामनुमानमिति चेत्, प्रातिस्विकरूपेणैव रसानां कारणतोपपत्तौ गुणकल्पने गौरवात् । शृङ्गारकरुणशान्तानां माधुर्यवत्वेन द्रुतिकारणत्वं प्रातिस्विकरूपेण कारणत्वकल्पनापेक्षया लघुभूतमिति तु न वाच्यम् । परेण तोऽर्थद्वयप्रतीत्यभावेन कथं तयोस्ततो लाभोऽत आह-तस्योत्तरेति। 'दीप्त्यात्मविस्तुतेर्हेतुरोजो वीररसस्थितिः । बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण तु ॥' इत्युत्तरसूत्रेत्यर्थः । यदीत्यनेन तदभावः सूचितः । एवं त्रयाणां रसानां माधुर्यमुक्त्वा त्रयाणामोजोगुणमाह-वीति । मात्रपदेनान्यगुणव्यावृत्तिः । एवं सति प्रसादोऽन्ययोर्नेति भ्रमनिवारणायाह-प्रसादस्त्विति । रचनासु चेति । एताः स्फुटीभविष्यन्ति । प्रयोज्याः, न तु जन्याः। तदेवाह-तत्तदिति। चर्वणास्वादः । व्यवेति । निश्चितेष्वित्यर्थः । उक्तमतं दूषयन्स्वमतमाह-येऽमीत्यादि मादृशाः इत्यन्तेन । तादृशेत्यस्य न वित्यादिः । 'इति चेत्, न' इति पाठः । प्रातिस्विकेति । शृङ्गारत्वादिनेति भावः । गुणेति । उक्तरीत्या.तदन्यगुणकल्पन इत्यर्थः । शङ्कते-शृङ्गारेति। लघुभूतामति। एककार्यकारणभावात् । तत्र तु त्रयमिति भावः । परेण मम्मटभटादिना । पृथक्पार्थक्येन । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy