SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org रसगङ्गाधरः । 'यच्च सहृदयशिरोमणिभिः प्राचीनैरुदाहृतम् 3 'चित्र महानेष तवावतारः क्व कान्तिरेषाभिनवैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एवं सर्गः ॥ इति, तत्रेदं वक्तव्यम् - प्रतीयतां नामात्र विस्मयः परं त्वसौ कथंकारं [ अद्भुतरस]ध्वनिव्यपदेशहेतुः । प्रतिपाद्यमहापुरुषविशेषविषयायाः प्रधानीभूतायाः स्तोतृगतभक्तेः प्रकर्षकत्वेनास्य गुणीभूतत्वात् । यथा महाभारते गीतासु विश्वरूपं दृष्टवतः पार्थस्य पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसंधान्' इत्यादौ वाक्यसंदर्भे । इत्थं चास्य रसालंकारत्वमुचितम् । भक्तिर्नैवात्र प्रतीयत इति चेदरमुकुलितलोचनं विदांकुर्वन्तु सहृदयाः । हास्यो यथा अत्राहु: Acharya Shri Kailassagarsuri Gyanmandir 'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा | अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासभधर्मपत्न्याः ||’ तार्किकपुत्रोऽत्रालम्बनम् 1 तदीया निःशङ्कोक्तिरुद्दीपिका । रदनप्रकाशादिरुद्वेगादयश्चानुभावव्यभिचारिणः । 'आत्मस्थः परसंस्थश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥ हसन्तमपरं दृष्ट्वा विभावश्वोपज्ञायते । योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ॥ उत्तमानां मध्यमानां नीचानामप्यसौ भवेत् । व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापरे ॥ ४३ For Private And Personal Use Only माह - यथेति । पार्थस्यार्जुनस्य । इत्यादिरूपवाक्यसंदर्भे । तस्य तत्र त्वंप्रथेत्यर्थः । अस्य प्राचोक्तपयस्य । एवमग्रेऽपि । ईषन्मुकुलितलोचनमिति क्रियाविशेषणम् । विहिते कृते । गौर्गर्दभी च तल्येति भावः । रदनेति । दन्तेत्यर्थः । यथासंख्यमन्वयः । अत्र हास्यविषये । आहुः प्राञ्चः । तदेवाह - आत्मेत्यादिमतमितीत्यन्तेन । अस्य हास्यस्य । व्यवस्थ उक्तप्रकारेण त्रिधावस्थः । तस्योक्तविधस्य । षण्णां क्रमेण लक्षणान्याह – ई
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy