SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। स्मितान्सभ्यान्प्रत्युक्तिः । अत्र याचमान आलम्बनम् । तदुदीरिता स्तुतिरुद्दीपिका । कवचादिवितरणं तत्र लघुत्वबुद्ध्यादिकं चानुभावः । मे इत्यर्थान्तरसंक्रमितवाच्यध्वन्युत्थापितो गर्वः स्वकीयलोकोत्तरपितृजन्यत्वादिस्मृतिश्च संचारिणौ । त्तिरप्यत्र तत्तदर्थानुरूपोद्गमविरामशालितया सहृदयैकचमत्कारिणी । तथा हि-उत्साहपोषकं कवचकुण्डलार्पणयोलघुत्वनिरूपणं विधातुं पूर्वार्धे तदनुकूलशिथिलबन्धात्मिका । उत्तराधे तु मौलितः । प्राग्वक्तृगतगर्वोत्साहपरिपोषणायोद्धता । ततः परं ब्राह्मणे सविनयत्वं प्रकाशयितुं तन्मूलीभूतं गर्वराहित्यं ध्वनयितुं पुनः शिथिलैव । अत एवावेदयामीत्युक्तम् । न तु ददामि वितरामीति वा । इदं तु नोदाहरणीयम्-- 'यस्योद्दामदिवानिशार्थिविलसद्दानप्रवाहप्रथा माकर्ष्यावनिमण्डलागतवियद्वन्दीन्द्रवृन्दाननात् । ईर्ष्यानिर्भरफुल्लरोमनिकरव्यावल्गदूधःस्त्रव. पीयूषप्रकरैः सुरेन्द्रसुरभिः प्रावृट्पयोदायते ॥' अत्रेन्द्रसभामध्यगतसकलनिरीक्षकालम्बनः, अवनिमण्डलागतवियद्वन्दीन्द्रवदनविनिर्गतराजदानवर्णनोद्दीपितः, उधःप्रस्नुतपीयूषप्रकरैरनुभावितः, असयादिभिः संचारिभिः परिपोषितोऽपि कामगवीगत उत्साहो राजस्तुतिगुणीभूत इति न रसव्यपदेशहेतुः । याचमान इन्द्रः । अरमणीयपदार्थमाह-तत्र लघुत्वति । मे इत्यर्थान्तरेति । अनेकशो रणेषु क्षतजर्जरीभूतकलेंवरत्वं लक्ष्यतावच्छेदकम्, सकलराज्यकोषादिदातृत्वं वा, रविकुन्तीसुतत्वं वा । स्वकीयलोकोत्तरेति । इदमेव च शक्यतावच्छेदकम् । तत्तदिति । तत्तदर्थानुरूपौ यावुद्गमविरामौ प्रारम्भसमाप्ती तच्छालितयेत्यर्थः । मौलितो मौलिमित्यतः । वक्ता कर्णः । ब्राह्मणे तद्वेष इन्द्रे । तन्मूलीभूतं सविनयत्वम् - लीभूतम् । सुरेन्द्रसुरभिः कामधेनुः । यस्य राज्ञः स्तुतिस्तामाकर्ण्य तैः प्रावृट्पयोदायते वर्षामेघायते । बन्दीन्द्राः स्तुतिपाठकेन्द्राः । व्यावल्गन्मधु(न्थ)रम् । कोपोऽमर्ष इत्यन र्थान्तरम् । ईर्ष्याक्षमा, गुणेषु दोषारोपोऽस्येति भेदः । असूयादिभिरिति । ईर्ष्याज. निका चासूयेति व्यङ्गयत्वमेवास्या इति भावः । कामगवी कामधेनुः । अत एव गुणी For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy