SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - .. . .... ... ... ... रसगङ्गाधरः । ५१५ रणभावो नात्र विवक्षितः । किं तु संनिधानेऽपि तद्गुणग्रहणाभाव इत्येतावन्मात्रम् । अतो विशेषोक्तेरतद्गुणो भिन्न इति तु न युक्तम् । संनिधानेऽपीत्यपिना विरोधोऽपि विवक्षित इति गम्यते । अन्यथा जीवातोरभावादलंकारतैव न स्यात् । स च कार्यकारणभावाविवक्षणेन भवतीति कथमुच्यते न विवक्षित इति' इत्यप्याहुः । इति रसगङ्गाधरेऽतद्गुणप्रकरणम् । अथ मीलितम्स्फुटमुपलभ्यमानस्य कस्यचिद्वस्तुनो लिङ्गैरतिसाम्याद्भिन्नत्वेनागृह्यमाणानां वस्त्वन्तरलिङ्गानां स्वकारणाननुमापकत्वं मीलितम् । संग्रहश्च 'भेदाग्रहेण लिङ्गानां लिङ्गैः प्रत्यक्षवस्तुनः । .. अप्रकाशो धनध्यक्षवस्तुनस्तन्निमीलितम् ॥' सामान्यवारणाय अनध्यक्षेति । तत्राध्यक्षस्यैव वस्त्वन्तरस्याग्रहणम् । तद्गुणे वस्त्वन्तरगुणानां भिन्नत्वेनाग्रहणेऽपि वस्त्वन्तरस्य ग्रहणमस्त्येवेति न तत्र प्रसङ्गः । उदाहरणम् 'जलकुम्भमुम्भितरसं सपदि सरस्याः समानयन्त्यास्ते । तटकुञ्जगूढसुरतं भगवानेको मनोभवो वेद ॥' अत्र सुरतगमकानां स्वेदकम्पनिःश्वासानां जलकुम्भानयनत्वराजनितैस्तैमैदस्याग्रहात्सुरतस्याप्रकाशः । यथा वा-- 'सरसिरुहोदरसुरभावधरितबिम्बाधरे मृगाक्षि तव । वद वदने मणिरदने ताम्बूलं केन लक्षयेम वयम् ॥' अत्र प्रियेण ताम्बूलं कुतो न गृह्णासीत्युक्ते एतावन्तं समयं ताम्बूलानि भुक्त्वैव समागतास्मीत्युक्तवतीं प्रति तस्येयमुक्तिः । पूर्वोदाहरणे प्रत्यक्षवस्तुलिङ्गान्यागन्तुकानि, अत्र तु साहजिकानीति विशेषः । इति रसगङ्गाधरे मीलितालंकारप्रकरणम् । प्राग्वदाह-अथेति । लिङ्गानामन्यदीयलिङ्गानाम् ॥ इति रसगङ्गाधरममप्रकाश मीलितप्रकरणम् ॥ For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy