SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९८ काव्यमाला । 'वल्मीकोदरसंभूतकपिकच्छूसहोदराः। हा पीडयित्वा निघ्नन्ति सज्जनान्दुष्टदृष्टयः ॥' अत्र कपिकच्छूसहोदरत्वेन मारकत्वं न प्राप्नोति, अपि तु पीडाजनकत्वमात्रम् । कवस्तु पीडां जनयित्वा मारयन्तीत्येवंरूपोऽतिशयो विवक्षितः । अतो वल्मीवादरसंभूतत्वं साधिकरणत्तितारूपं कपिकच्छूविशेषणं मारकतावच्छेदकत्वेन स्वप्रतिभया कविना कल्पितम् । यथा वा 'मन्थाचलभ्रमणवेगवशंवदा ये दुग्धाम्बुधेरुदपतन्त्रणवः सुधायाः । तैरेकतामुपगतैविविधौषधीभि र्धाता ससर्ज तव देव दयादृगन्तान् ॥' अत्र गन्तेषु न केवलं संजीवकत्वादयोऽमृतमात्रगुणा एव कवेर्बुबोधयिषिताः, अपि तु निखिलजनवशीकारकत्वादयोऽन्येऽपीति सुधाकणेष्वौषधीसंसर्गों विशेषणतयातिशयार्थमुपात्तः । उत्पाद्योत्पादकभावश्चात्र न लोकसिद्धः, अपि तु कविमात्रनिबद्धः । यथा वा 'त्वदङ्गणसमुद्भूता सिक्ता कुङ्कुमवारिभिः । त्वदङ्गतुलनां याति कदाचिल्लवलीलता ॥' ___ अत्र केवलाया लवल्या उपमानताभरसहनसामर्थ्यस्याभावात्तस्य सिद्वये नायिकासामानाधिकरण्यकुङ्कुमजलसंयोगयोरुपादानम् । अत्र च धर्मिविशेषसंसर्गादतिशयो धर्म्यन्तरगतो यद्यागूरणविषयस्तदैवायमलंकारः । वाच्यवृत्त्या तत्तत्प्रयुक्तत्वेनाभिहितश्चेत्समालंकारस्यैव विषयः । यथा-- 'त्वत्तो जन्म हिमांशुशेखरतनुज्योत्स्नानिमग्नात्मनो दुग्धाम्भोनिधिमुग्धवीचिवलयैः साकं परिक्रीडनम् । संवासः सुरलोकसिन्धुपुलिने वादः सुधांशोः करैः कस्मान्नोज्ज्वलिमानमञ्चतितमां देव त्वदीयं यशः ॥' प्राग्वदाह-अथेति । कपिकच्छूर्वृश्चिकः । लवली 'रायआंवले' 'हरफारेवडी' For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy